SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३३० कातन्त्रव्याकरणम् त्वत्कृतम् । मयका कृतम्, मकत्कृतम् । त्यक्त्, भवकत् कुलम् । भवकान्, प्रकृत्यन्तः पातित्वात् । स्मैप्रभृतयश्च भवन्ति, कप्रत्ययेन व्यवधानं स्यादिति । 1 यावक इत्यादि । यावादिभ्यः स्वार्थे को बहुलत्वादेव । याव - मणि- स्वस्ति - इन्दुनील - कृष्ण- सान्द्र-श्रीकृष्ण- वामन-पीत-लोष्ट- अस्थि - भिक्षु - पत्र - नल- स्तब्ध | तथा ऋतौ उष्णशीते पशौ लूनविदाते । अणु निपुणे | पुत्र कृत्रिमे । पुष्प विमाने । स्नात वेदसमाप्तौ । शून्य रिक्ते । दान कुत्सिते । तन्तु सूत्रे । बृहती आच्छादने । ईयन्सु चाज्ञाने । कन्दु कुमारक्रीडने । उष्णकः, शीतकः ऋतुः । अन्यत्र उष्णं शीतं जलम् । लूनको विदातकः पशुः । अन्यत्र लूनं विदातम् । अणुको निपुणः, अन्यत्र अणुः । कृत्रिमः पुत्रः पुत्रकः, अन्यत्र पुत्रः । पुष्पकं विमानम्, अन्यत्र पुष्पम् । यस्य वेदः समाप्तः स स्नातक उच्यते । वेदसमाप्ताविति किम् ? नद्यां स्नातः । शून्यको रिक्तः । अन्यत्र शून्यम् । दानकं कुत्सितम्, अन्यत्र दानम् । तन्तुकं सूत्रम्, अन्यत्र तन्तुः । बृहतिका आच्छादनम् (प्रावारः); अन्यत्र बृहतीच्छन्दः । अज्ञाने श्रेयस्कः, अन्यत्र श्रेयान् । कुमारः क्रीडत्यनेन कुमारक्रीडनः कन्दुकः । आकृतिगणत्वाद् बहुलमेव श्रेय इति । अज्ञान इति अश्व इत्युक्ते प्रयोगसामर्थ्यात् सम्बन्धिविशेषाज्ञानं गम्यते, नहि सर्वथा अविज्ञानार्थः शब्दः प्रयोगमर्हति । तस्मात् स्वेन रूपेण परिज्ञातस्याज्ञाने इत्यर्थः । कुत्सायां चेति । कुत्सायां वर्तमानादित्यर्थः ! कुत्सितोऽश्वः अश्वकः, तथा कुत्सितकम्, ईषत् कुत्सितम् अतिकुत्सितं वेत्यर्थः । क्षेपेऽपि - व्याकरणकेन त्वं गर्वितः इति । अथवा क्षेपोऽपि कुत्सितार्थ इति किं भेदेनेति । कुत्सिते संज्ञाया च को भवति, तदन्तेन चेत् संज्ञा गम्यते । शूद्रकः, साधकः, बाधकः, वाहकः, पूर्णकः, पुष्पकः, पृथुकः । किं भेदेन ? कुत्सायामित्यनेनैव सिद्धत्वात् । दयायामिति । दयायां गम्यमानायामित्यर्थः । अनुकम्पितो वत्स इति विगृह्य कः । एवं दुर्बलकः, बुभुक्षितकः, हरीतकः । तद्युक्तनीतावपि भवति । सामदानभेददण्डलक्षणा नीतिः । भेददण्डौ त्वनुकम्पायां न स्त इति सामदानात्मिकेह नीतिरिति । अथवा भेददण्डात्मिकायामपि ऐहलौकिकं पारलौकिकं वाऽनर्थकं पश्यन्ननुकम्पमानोऽनर्थपरिहारार्थं प्रयुञ्जीत । तदापि दयायामित्येव सिद्धत्वादिति वृत्तौ मतभेदेन दर्शितम् । न चानुकम्प्यमानादित्युक्तं व्यवहितादपि भवति - ' एहकि धानाकास्तवेति' । तत्रापि दया गम्यते एव । अल्प इत्यपचितपरिमाणे वर्तमानादित्यर्थः । अल्पकमिति
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy