________________
नामचतुष्टयाध्याये द्वितीयः सखिपादः
३२९ इत्वं न स्यात् ? प्रतीयते येनार्थः स प्रत्यय उच्यते। इह तु प्रकृतिरेव तदर्थमभिधत्ते । न चात्र प्रत्ययानां विधानं येन तत् तत्प्रस्तावबलात् कल्यते ? सत्यम् । 'अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति' (पुरु० प० पा० ९०), स्वार्थश्च प्रकृत्यर्थ इति शब्दस्य प्रवृत्तिनिमित्तम्, तत्र सहायभावेन कथं न प्रत्यय इति |अज्ञातादयश्चार्थाः अभिधानगम्याः, तानन्तरेणाप्यक् दृश्यते इति सूत्रकृता नोक्ताः।
अथवा अधिकृतस्य वाशब्दस्य बहुलार्थत्वादज्ञाताद्यर्थे कप्रत्ययः । तदा अन्वर्थता स्पष्टैव । स्वार्थमभिधाय शब्दो निरपेक्षद्रव्यमाह समवेतं समवेतस्त्य चोक्तो लिङ्गं संख्यावचनं विभक्तिं च अभिधाय तान् विशेषानपेक्षमाणः कृत्स्नमात्मानं च लब्ध्वा कुत्सनादिषु पुनर्वर्तते असौ विभक्त्यन्तः -
कुत्सादिभिः समाप्त्यर्थं पदं सद्भिः प्रयुज्यते ।
लोके जात्यादयः सर्वे यस्मात् कुत्सादिहेतवः॥ तथा चाह- कुत्सितस्था तु या कुत्सा तदर्थः को विधीयते।
कुत्सितत्वेन कुत्स्यो वा न सम्यग् वापि कुत्तितः।
स्वशब्दाभिहितः केन विशिष्टोऽर्थः प्रतीयते ॥ अव्ययानाम् अक्प्रत्यये सति ककारस्य तकारः, सद्यआद्यत्वात् । हिरुक्, हिरकुत् । पृथक् पृथकत् । धिक्. धकित् ! तथा कुत्सितादिषु तूष्णींशब्दात् कप्रत्ययो यलोपश्च । तूष्णींशीलेऽपि तूष्णीकः । शीलं स्वभावो नियमोऽप्युच्यते । यथा 'शीलवान् भिक्षुः' । योऽपि नियमपरतया वाचं नियच्छति सोऽपि तूष्णीक । 'दिभक्तेश्च पूर्व इष्यते' इति सर्वनाम्नां विभक्तरित्यर्थः । अव्ययानामनन्तरत्वाद् विभक्तेरन्त्यात स्वराद् इति श्रुतसंबन्धः । तथाप्यनोऽकारसकारभकारादेरित्यर्थः । युवकयोः, आवकयोः । युष्मकासु, अस्मकासु इति । भकारादेर्दर्शितमेव ।
आख्यातत्य चेति । अन्त्यात् स्वरादिति संबन्धः एव । कुत्सितं पचतीत्यादि वाक्यम् । भिन्नदेशकालानामप्येकार्थतया बाधकमिति अका द्योतितेऽर्थे को न भवति । कप्रत्ययश्च बहुलमिति बहुलशब्द: प्रत्येकमभिसंबध्यते, भिन्नविभक्तिनिर्देशाच्च अव्ययसर्वनानामिति न संबध्यते त्वया युक्तः । अन्यथा 'अक्कौ' इति विदध्यात् ! सर्वनामसु व्यञ्जनान्तेषु अप्रत्ययस्य कप्रत्ययस्य च रूपभेदो यथा त्वयका कृतम्,