________________
नामचतुष्टयाध्याये द्वितीयः सखिपादः
३३३ विदारणे (६।२) ततो हि रुधादित्वान्नशब्दः रुधादेर्विकरणान्तस्य लोप इति ।हुधुड्भ्यां हेर्धिः (३।५।३५) इति कप्रत्ययश्चेति । याव एव यावकः । मणिरेव मणिकः । यावादिभ्यः स्वार्थे को भवति, अत एव बहुलत्वात् । तथा स्वस्तिकः, इन्दुकः, पीतकः, नीलकः इति । यावादिराकृतिगणः । अज्ञाने कुत्सायां चेति ।बहुलत्वादेवाज्ञातादिष्वर्थेषु कपत्यय ।तथा च वृद्धैरुक्तम् -
अज्ञाने कुत्सिते चैव संज्ञायामनुकम्पने।
तद्युक्तनीतिरप्यल्पे वाच्ये हस्वे च कः स्मृतः॥ कस्यायमश्वः, कुत्सितो वा अश्वः इत्यश्वकः । अज्ञानमपि सम्बन्धिविशेषविषयमेव द्रष्टव्यम् । न पुनः स्वेन रूपेण तदेव वस्तु न विज्ञातम्, तदा अश्वादिशब्दस्याप्रयोगप्रसङ्गात् । नहि अविदितार्थः शब्दो लोके प्रयोगमर्हतीति तत्र स्वेन रूपेण ज्ञातस्य सम्बन्धिविशेषाशाने कप्रत्ययः । दयायामिति । अनुकम्पने गम्यमाने इत्यर्थः । वत्सक इति । अनुकम्यितो वत्स इति विगृह्य कप्रत्ययः । तद्युक्तनीतावपि दर्शयति । तेनानुकम्पनेन युक्ता तयुक्ता चासौ नीतिश्चेति तस्याभपीत्यर्थ: । अत्र यद्यपि साम-दान-भेद-दण्डलक्षणा नीतिश्चतुर्विधा तथापि सामदालात्मिका नीतिरिह गृह्यते, अस्या एवानुकम्पायुक्तत्वात् न तु भेददण्डौ तयोहिँसार्थत्यादित्याह -- एहकीत्यादि । तदा पुनरनर्थकपरिहारद्वारेण आत्मानमनुकम्पयिष्यन् भेददण्डात्मिकामपि नीतिं प्रयुञ्जीत इति विवक्षा ।तदाप्यनुकम्पाविषयत्वाद्भवितव्यमेवेति |वृत्तौ पुनस्तद्-युक्तनीतावित्यभेदेन दर्शितम् । इहाप्यनुकम्पाया विद्यमानत्वाद् दयायामित्येवं सिद्धम् । एहकीति आयूर्वाद् 'इण् गतौ' (२।१३) ततो हि आख्यातस्य चेति हिशब्दस्येकारात् पूर्व तयुक्तनीतावित्यक्प्रत्ययः । ‘धानाका' इत्यत्र च क एवेति ।।२२० ।
[क० च०]
अव्यय०। अनपघातेनेत्यादि । “अद् व्यजनेऽनक्" (२।३।३५) इत्यत्र अग्वर्जनमेव आगमत्वे ज्ञापकम् । अन्यथा आगमत्वं विना साकोऽदादेशासंभवाद वर्जनमनर्थकं स्यात् । अभिधानादिति । अस्य प्रत्ययत्वे उदनुबन्धाकरणमपि प्रमाणम् । श्रुतत्वादिति | "अव्ययसर्वनाम्नः" (२।२।६४) इत्यस्य पश्चाद् अन्त्यात् स्वरात् पूर्वमित्यवधार्यमिति ध्येयम् । अन्यथा अक् च कश्चेति द्वन्द्वे सतीत्यादि । ननु