SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३२६ कातन्त्रव्याकरणम् ओ भवति । अथवा 'स्वरादेशः परनिमित्तकः पूर्वविधिं प्रति स्थानिवत्' (का० परि० ९) इत्युवर्णे ओत्वमिति । सन्निपातेत्यादि । ननु वर्णग्रहणे निमित्तत्वाद् इत्यङ्गीकर्तव्यम् 'वृक्षाय' इत्यादि सिध्यर्थम् । ह्रस्वश्च वर्ण इति न कथं सेर्लोपो भवति ? सत्यम् । 'भवतो भोः सम्बुद्धौ' इति कृते यद् वादेरुत्व विधत्ते तज्ज्ञापयति - अनित्यमिदमिति । अन्यथा वर्णग्रहणे निमित्तत्वाद् "व्यञ्जनाच्च" (२।१।४९) इति सेर्लोपो भविष्यति । अन्यः पुनराह – वादेरुत्वं योगविभागार्थं 'वादेरुत्वम्' इत्येकयोगस्ततो भवत इति । विभञ्जनं विभागोऽन्यथाकरणमिति कृत्वा तेन भगवदघवतोरपि भवति । भगो ज्ञानम्, अघं पापम् ; तद् विद्यतेऽस्येति वन्तुः । 'भवतः' इति पुनर्वचनं पूर्वविधैर्लक्ष्यानुरोधार्थम् आभ्यामन्यत्र न स्यात् - हे भगोः ! हे भगवन्! हे अघोः , हे अघवन् ! नैवम्, भाषायां शिष्टप्रयोगो दृश्यते इति सूत्रकारमतम् । यदि भावप्रत्ययनिर्देशो न स्यात् प्रथमैकवचनस्य विसर्जनीये सति 'उस्' इत्यपि प्रतिपद्येत । अन्तरङ्गत्वाद् अक्प्रत्ययेऽपि वादेरुत्वमिति ।।२१९। [वि० प०] भवतः।वादेरिति । एवादिर्यस्येति विग्रहः । ननु उत्वे सति ह्रस्वस्य विद्यमानत्वात् "हस्वनदी०" (२।१।७१) इत्यादिना संबुद्धेर्लोपः कथं न स्यादित्याह - सन्निपातलक्षणेत्यादि । तथापि वर्णग्रहणे निमित्तत्वात् प्राप्नोतीति चेत्, सत्यम् । भवतो भोः संबुद्धाविति भोसादेशेन सिद्धे यद् वादेरुत्वमिति तद् बोधयति - अनित्योऽयं न्याय इति । अन्यथा भोसादेशस्य व्यञ्जनान्तत्वात् "व्यानाच्च" (२।१।४९) इति सेर्लोपो भविष्यति । सत्यपि सन्निपातलक्षणे वर्णग्रहणे निमित्तत्वादिति भावः ।।२१९ । [क० च०] भवतः। सन्निपातेत्यादि वृत्तिः । ननु हे भो इत्यत्र वादेरवयवस्योत्वे "उवणे ओ" (१।२।३) इति कृते कथम् ओकारात् सिलोपप्राप्तिर्येन सन्निपात इत्युच्यते ? सत्यम् । भूतपूर्वोकारमाश्रित्य प्राप्तिरिति हेमकरः। तन्न, यतोऽनेनैवोक्तम् – पन्थिमन्थीत्यत्र भूतपूर्वाश्रयणं न सर्वत्र, किन्तु यत्र सम्बुद्धिमाश्रित्य ह्रस्वो विकृतस्तत्रैव । न ह्यत्र संबुद्धिमाश्रित्य "उवणे ओ" (१।२।३) विकृतिर्विहिता । अस्मन्मते 'हे से!' इत्यादिवदत्रापि सिलोपः प्राप्नोत्येव, तस्माद् अयुक्तं सन्निपाताश्रयणमिति ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy