________________
नामचतुष्टयाध्याये द्वितीयः सखिपादः
३२५ २. स्त्रियः, स्त्रीः । स्त्री + शस् । धातुवद्भाव के पक्ष में ई को इयादेश - स्त्रियः । धातुवद्भाव के अभाव में शस् प्रत्यय के अकार का लोप तथा सकार को विसगदिश ।।२१८
२१९. भवतो वादेरुत्वं संबुद्धौ [२।२।६३] [सूत्रार्थ]
सम्बुद्धिसंज्ञक 'सि' प्रत्यय के पर में रहने पर 'भवन्त्' शब्दान्तर्गत 'वन्तु' भाग को उत्व होता है ।।२१९।
[दु० ०]
भवतोऽवयवस्य वादेरुत्वं भवति वा संबुद्धौ । हे भोः, हे भवन् ! सन्निपातलक्षणत्वात् संबुद्धेर्लोपो न स्यात् ।।२१९ ।
[दु० टी०]
भवतो०। भवतः इत्यदयवलक्षणा षष्ठी | व् एवादिर्यस्येति तद्गुणसंविज्ञानो बहुव्रीहिरयम्। सर्वनामगणपठितस्य भवच्छब्दस्य ग्रहणम् । तेन भानि नक्षत्राणि सन्त्यस्येति वन्तुना शन्तृङा च नित्यं हे भवन् ! तदन्तविधिरपि भवत्येव । परमश्चासौ भवंश्चेति हे परमभोः! लिङ्गग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् - हे भो ब्राह्मणि ! हे भवति ब्राह्मणि! कथन्तर्हि भो ब्राह्मणौ, भो ब्राह्मणा इति ? भोः-शब्दोऽयमव्ययम् आमन्त्रणार्थोऽस्ति, तेन द्विवचनबहुवचनयोरदोष इति । यद्येवं पत्रेणापि किम्, प्रथमैकवचनेऽपि तेनैव सिद्धत्वात् सामान्यप्रयोगे विशेषः प्रयुज्यते, इति भो:शब्दस्याव्ययस्य भवतु नाम प्रयोगः । अपरः कथं भोः - :ब्दः प्रयुज्यते, हे भो देवदत्त! भो भो देवदत्त! इति संवोधने सम्भ्रमे यावद्बोधं पदस्य द्विरुक्तिर्युक्तैव । किञ्च तदन्तविधिरपि न सिध्यति । अन्यच्च भवदीर्घायुरायुष्मद्देवानां प्रियैर्योगे उसादयोऽन्याभ्योऽपि विभक्तिभ्यो वा भवन्ति । ‘सभोः, सभवन् । ततोभोः, ततोभवन् । अयंभो:, अयंभवन् । इहभोः, इहभवत्' इत्यादि एकदेशविकृतस्यानन्यवद्भावात् सिद्धं भवति ।
ननु उत्चे सति “सम्बुद्धौ च" (२।१।५६) इत्योत्वे, उत्वमोकारस्य प्रसज्येत 'हे भोः' इति , सत्यम् । 'प्रकृतेः पूर्वं पूर्वं स्यादन्तरङ्गम्' (कात० प० पा०७१) इत्युवर्णे