________________
नामचतुष्टयाध्याये द्वितीयः सखिपादः
भोसोदेशेनैव सिद्ध इत्यादि । ननु कथमिदमुच्यते - उत्वे कृते वर्णग्रहणे निमित्तत्वादिति न्यायात् “हस्वनदी०” (२।१।७१ ) इत्यादिना सिलोपे निर्विसर्गः प्रयोगः : स्यात्, भोसादेशे च सविसर्गः प्रयोगः, तत्कथं भोसादेशेनैव सिद्धे इत्युक्तम् । सत्यमत्र सिलोपे विवादोऽध्यासितो न तु विसर्गनिर्विसर्गं प्रति विवादः । ततश्च सिलोपमादायैव विवादस्तन्निरासाय सिद्धान्तो ज्ञेयः । यदि निर्विसर्गं प्रति विवादस्तदा वादेरुत्वमित्यपनीय भवतो भूः संबुद्धावित्येवं कृतं स्यादिति कुलचन्द्रः । तन्नातिपेशलम् । यस्मादिदमपि वक्तुं शक्यते । यथा भूरित्यकृत्वा वादेरुत्वमिति वचनं संबुद्धिलोपाभावार्थमुच्यते, तदा भोसादेशमकृत्वा यद् गुरुकरणं तत् संबुद्धिलोपार्थमिति किं नोच्यते ।
३२७
तस्मादयमेव सिद्धान्तः–भवतो भोः संबुद्धाविति सूत्रस्यैकदेशानुकीर्तनं सूत्रसमुदायस्तु भवतो भोः संबुद्धौ सलुगिति बोध्यम् । सकारं विधाय यत् तस्य लोप-विधानं तद् “व्यञ्जनाच्च” (२।१।४९) इति सिलोपविधानार्थम् । तस्मादुभयपक्ष एव विसर्गाभावस्य सिद्धत्वात् नास्ति पूर्वपक्षावतारः । वस्तुतः पत्रिका एवं योज्या वर्णग्रहणे निमित्तत्वात् सिलोपः प्राप्नोतीति । एतेन विसर्गाभावः प्रयोगः साध्यः । अथ यदि विसर्गाभाव एव साध्यस्तदा भवतो भूः संबुद्धाविति कृतं स्यात्, किं गुरुकरणेनेति ? तस्मादीदृशमकृत्वा वादेरुत्वमिति यत् क्रियते, तद्वर्णग्रहणे निमित्तत्वादित्यस्यानित्यत्वं प्रतिपाद्य सविसर्ग एव साध्य इति । ननु यदि सविसर्ग एव साध्यस्तदा भोसादेश एव विधीयताम्, किमनेन गुरुप्रयलेन ? एतदेव पूर्वपक्षवादिनो मतं श्लाघयन् सिद्धान्तयति चेत्, सत्यमित्यादि ।
अयमभिसन्धिः
यदि विसर्गान्त एव साध्यः स्यात् तदा भोसादेश एव कृतः स्याद् विसर्गान्तसाधकं भोसादेशमकृत्वा यद् गुरुकरणं तेनानुमीयते - भोसादेशेऽपि “व्यञ्जनाच्च” (२ । १ । ४९) इति सिलोपाभावाद् विसर्गद्वयस्थितिरेव स्यादिति । एतच्च, तदैवोपपद्यते यदि वर्णग्रहणे निमित्तत्वाद् इत्यस्यानित्यत्वं गृह्यते इति स्थितम् | अन्यथा वर्णग्रहणे निमित्तत्वादित्यस्यानित्यत्वं विनेत्यर्थः ।। २१९ ।
-:
[समीक्षा]
'भवन्त् + सि' इस स्थिति में कातन्त्रकार ने 'वन्त्' को वैकल्पिक उ, " उबर्णे ओ” (१ । २ । ३) से अ को ओ तथा स् को विसगदिश करके 'भोः' तथा उ आदेश