SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३२० कातन्त्रव्याकरणम् भवत्येव । यथा महान्तौ च ती नियौ चेति । परमौ च तौ लुवौ चेति विग्रहे 'महानियो, परमलुवौ' इति ।।२१५। [क० च०] अनेका० । ननु ग्रामण्यादौ कथं यकारवकारौ अव्ययकारकाभ्यां यल्लिङ्गं तस्मादनेकाक्षरत्वाभावात् ? सत्यम् । सुधीरिति वचनाद् अव्ययकारकमादायानेकाक्षरत्वं ग्राह्यम् । अन्यथाऽनेकाक्षरत्वाभावादेव सुधियावित्यत्र यत्वस्याविषयत्वादीदूतोरियुवौ स्वर इत्यनेन इयादेशः सिद्धः, किं सुधीरिति वचनेन । तस्माद् यदि शब्दान्तराद् भवति तदा अव्ययकारकाभ्यामेव नान्यस्मादिति पजी । नन्वेवं सति ‘वृश्चिकभिया पलायमानस्य' इत्यत्र 'कुधियौ, कुधियः' इत्यत्र च यत्वस्य विषयत्वात् कथम् इय् स्यात् ? सत्यम् । अव्ययकारकाभ्यामिति धातुमात्रस्य विशेषणं न लिङ्गस्य विशेष्यविशेषणभावस्य प्रयोक्तुरायत्तत्वात्। तेनायमर्थः - अव्ययकारकाभ्यां परो यो धातुस्तस्य संयोगात् परौ यावीदूतौ तयोर्यवौ भवतः इति धातोविशेषणत्वे विभक्तेः पूर्वमेव अव्ययकारकाभ्यां धातोः संबन्धे सति क्विप् समासो लब्धः । अत एव क्विप् “समासस्थस्यैव धातोरेकस्वरस्य यवौ'' इति श्रीपतिसूत्रम् । ‘वृश्चिकभिया, कुधियौ' इत्यादौ स्याद्यन्तलिङ्गस्यैवाव्ययकारकाभ्यां सह संबन्ध इति कथमत्र यवयोः प्रसङ्गः । अत एव वररुचिनापि समासो यदि धातुप्रधानो भवति तदैव स्याताम् इत्येतदेव भण्यते । यद् वा क्वचिदपवादविषये उत्सर्गस्यापि समावेश इति न्यायाद् यवयोर्विषयेऽपि इयुवादेश इति नैयासिकाः। अन्ये तुशब्दस्य बहुलार्थत्वात् क्विप् समासस्थस्यैव मन्यते । [समीक्षा] 'ग्रामणी + औ, ग्रामणी + जस्, यवलू + औ, यवलू + जस्' इस अवस्था में कातन्त्रकार तथा पाणिनि दोनों ही ईकार को यकार तथा ऊकार को वकार आदेश करके 'ग्रामण्यौ, ग्रामण्यः, यवल्चौ, यवल्वः' रूप सिद्ध करते हैं । पाणिनि का यण्विधान सामान्य है, परन्तु ई को य तथा ऊ को व् ही प्रवृत्त होता है - "एरनेकाचोऽसंयोगपूर्वस्य" (अ०६:४८२) ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy