SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाच्या द्वितीयः सखिपादः (२।१।७७) इति निर्देशाच्च स्वर एवात्र निश्चीयते इति अनेकाक्षरयोरिति । अर्थायातस्य लिङ्गस्य विशेषणम् ईदूतोर्द्वयोः संबन्धाद् द्विवचनमिति । ___ अथानन्तरे धात्वधिकारे कथमेतद्धातुरप्यनेकाक्षरः संभवति ।मतीयति, वसूयतीति क्विपि कृते मत्यौ, वस्वाविति । यद्येवं भूरवर्षाभूरपुनर्भूरिति वचनमनर्थकम् ।अथ तदापि यिन्विषये इति चेद् अयुक्तम । अप्रसिद्धत्वाद् विशेषणविशेष्यभावयोरिष्टत्वाच्च । धात्वधिकारेण त्वसंयोगो विशिष्यते, धात्ववयवसंयोगान्न भवतीत्यर्थ । 'यवं क्रीणाति, कटं प्रवते' इति क्विप् । अधातुसंयोगाद् भवत्येव – 'उन्यौ, सकृत्स्वौ' इति । अत आहअनेकाक्षरयोरित्यादि । अव्ययकारकाभ्यामेवायं विधिरिति यदुक्तं तदिह भूशब्दस्य व्यवस्थावाचित्वाल्लभ्यते । तेन महान्तौ च तौ नियौ चेति । परमौ च तौ लुवौ चेति - महानियौ, परमलुवाविति । एवं शोभननियौ, उत्तमलुवाविति । नेति सिद्धे यवग्रहण सवर्णेऽपि यत्वार्थम् । पथीयति, मथीयतीति क्विपि कृते सप्तम्येकवचने 'पथ्यि, मथ्यि' इति भवितव्यम् ||२१५। [वि० प०] अनेका०। न क्षरति न चलतीति प्रधानत्वादक्षरं स्वर उच्यते । न विद्यते एकमक्षरं यस्येति विशेषणविशेष्यभावस्येष्टार्थत्वाल्लिङ्गमुच्यते, न धातुरित्याह - अनेकाक्षरयोर्लिङ्गयोरिति । ईदूतोयोरिह संबन्धाद् द्विवचनम् । धात्वधिकारेण पुनः संयोगो विशिष्यते इत्याह - धातोरसंयोगान्न भवतीत्यर्थः । नियौ, लुवाविति । ननु कथमिदं प्रत्युदाहरणं व्यङ्गविकलत्वात्, यथेहानेकाक्षरत्वं न संभवति, तथा अव्ययकारकाभ्यामपि न भवतीति । तदयुक्तम् । उपपदान्तरव्यवच्छेदेनैवाव्ययकारकाभ्यामेवेति नियम उक्तो न सर्वत्र । यदि शब्दान्तराद् भवति तदा अव्ययकारकाभ्यामेव नान्यस्मादिति । तेनाव्ययकारकमन्तरेणापि अनेकाक्षरस्य भवत्येव । यथा मतिमिच्छति, वस्विच्छतीति यिन् - मतीयति, वसूयतीति क्विपि कृते "वोwजनेऽये" (४।१।३५) इति यलोपे च मत्यौ, वस्वाविति । तथेहापि स्याद् इत्यनेकाक्षरग्रहणम् । कटप्रुवाविति । कटं प्रवते इति क्विप् “वचिपच्छिश्रिनुज्वां क्विन् दीर्घश्च" (उ० २।२३) इति । अव्यय इत्यादि । एतगुनरिह तुशब्दस्य व्यवस्थितार्थत्वादवगन्तव्यम् । तेन ग्रामं नयति, यवं लुनातीति क्विपि कृते कर्मकारकाद् भवति । एवमव्ययादपि ‘अतिन्यौ, अतिल्चौ' इत्यादि । यत्र तु नाव्ययकारकयोः संभवस्तत्र न
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy