________________
३१८
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. मित्रभुवौ । मित्रभ् + औ । प्रकृत सूत्र से 'मित्र - भू' शब्दगत ऊकार को ‘उव्’ आदेश |
२. मित्रभुवः । मित्रभू + जस् । प्रकृत सूत्र द्वारा भू- गत ऊकार को 'उव्' आदेश तथा "रेफसोर्विसर्जनीयः " (२।३।६३) से सकार को विसर्ग ।
३. अतिभुवौ । अतिभू + औ । प्रकृत सूत्र से ऊकार को 'उव्' आदेश | ४. अतिभुवः । अतिभू + जस् । पूर्ववत् प्रकृत सूत्र द्वारा ऊकार को उव् तथा सकार को विसगदिश || २१४ |
२१५. अनेकाक्षरयोस्त्वसंयोगाद् यवौ [ २।२।५९] [सूत्रार्थ ]
अनेकाक्षर वाले लिङ्ग में विद्यमान तथा संयोगसंज्ञक ईकार- ऊकार के स्थान में क्रमशः य्-व् आदेश होते हैं विभक्तिगत स्वर के परे रहने पर || २१५।
[दु० वृ०]
अनेकाक्षरयोर्लिङ्गयोर्यावीदूतौ तयोर्धातुसंयोगात् परयोर्ययौ भवतो यथासङ्ख्यं विभक्तिस्वरे । ग्रामण्यौ, ग्रामण्यः, यवल्वौ, यवल्वः । अनेकाक्षरयोरिति किम् ? नियौ, लुवौ | असंयोगादिति किम् ? यवक्रियौ, यवक्रियः । कटप्रुवौ, कटप्रुवः । अव्ययकारकाभ्यामेवायं विधिः
[दु० टी० ]
अने० । इयुवोरपवादः । न क्षीयते वा अक्षरमिति, तत् पुनर्नित्यवादिनां मते वर्ण एवान्वर्थतया घटते । अनित्यवादिनां तु रूढिनो व्युत्पत्तिर्यथाकथंचित् । तथा चाक्षरसमाम्नाये वर्णसमाम्नाय इति प्रक्रियामपेक्ष्य च न क्षरति न चलतीति कृत्वा अक्षरं स्वर उच्यते पूर्वाचार्यैः । इह वर्णपर्यायाक्षरग्रहणे न विद्यते एकमक्षरं यस्येति विग्रहो नोपपद्यते, व्यावृत्तेरभावात् । अथ व्यपदेशिवद्भावाद् वेञः संप्रसारणे क्वौ दीर्घे सति ऊ इति, ईङ् गताविति । अतश्च क्विपि ई इति । तदयुक्तम् । ईङः क्विपोऽनभिधानात् । अथ अस्यापत्यम् इः कामः, तमिच्छतीति यिन्, एवमप्यरूढत्वात् "नियो ङिराम्”