SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाण्याये द्वितीयः सखिपादः [वि० प०] भूः । इदमप्यनेकाक्षरत्वाद् वत्वे प्राप्ते वचनम् । यस्मान्मित्राद् भवतीति क्विपि अव्ययकारकाभ्यां परो भूर्भवतीति ‘वर्षाभ्वौ, पुनर्बो' इति । वर्षासु भवति, पुनर्भवतीति क्विप् ।।२१४। [क० च०] भूरवर्षाभू० । ननु दृन्भ्वम्, करभ्वमिति सिद्धये पुनर्भुवम्, "दृन्कराद् भुवः" इति पौराख्यायते । तेन वत्वं स्यात् । अस्मन्मतेऽतिदेशाभावात् कथमुवादेशो न स्यात् ? सत्यम् । अवर्षाभूरपुनर्भूरित्यत्र अवर्षापुनामिति सिद्धे यद् नद्वयं तद् बोधयति - वर्षाभूपुनर्भूशब्द उपलक्षणम् । अन्यत्रापि न स्यात्, तेन ‘दृश्वम्' इत्यादि सिद्धम् । ननु भूरुवं प्राप्नोतीत्युक्ते वत्वस्य प्रसङ्गो नास्त्येव अनेकाक्षरत्वाभावात् कथमुक्तम्, वत्वे प्राप्ते वचनमिति चेत्, अनर्थकमिदम् ईदूतोरित्यनेन केवलस्य उसिद्धेः । वर्षाभूः, पुनर्भूरित्यस्य वर्जनं च भविष्यति । नहि भूरुवमित्युक्तेऽनयोः प्रसङ्गो येन प्रतिषेधोऽर्थवानिति । तस्माद् भूपदेन तदन्त उपलक्ष्यते तदन्तता चाव्ययकारकाभ्यां सह सूत्रसामर्थ्यात् । ततश्च वर्षाभूप्रकृतेः स्याद् इति वचनम् । धातोरुपस्थितिः कुर्वता क्रियावाचकशब्द उपस्थाप्यते तत्राह -- कीलालपादेर्धातुत्वं नास्ति । कर्बर्थः प्रतीयते कर्तृवाचकत्वात् ततश्च धातूपदेशलक्षणया ईदूद्धातोरुपस्थितिः क्रियते । ततश्च लक्षणया इदमुक्तं तथा श्रद्धाकारो लक्ष्यते इत्याह - धातुग्रहणम् इत्यादि ||२१४। [समीक्षा] 'मित्रभू + औ, मित्रभू + जस्, अतिभू + औ, अतिभू + जस्' इस अवस्था में कातन्त्रकार तथा पाणिनि दोनों ही ऊकार को 'उव्' आदेश करके 'मित्रभुवौ, मित्रभुवः, अतिभुवौ, अतिभुवः' शब्दरूप सिद्ध करते हैं । अन्तर यह है कि पाणिनि "न भूसुधियोः" (अ० ६।४।८५) सूत्र से साक्षात् यण् आदेश का निषेध करते हैं , तब “अचि श्नुधातुध्रुवां बोरियडुवडौ" (अ० ६।४।७७) से उवङ् आदेश प्रवृत्त होता है।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy