________________
कातन्त्रव्याकरणम्
२. सुधियः । सुधी + जस् । प्रकृत सूत्र द्वारा सुधीशब्दस्थ ईकार को इयादेश तथा "रेफसोर्विसर्जनीयः " (२।३।६३) से सकार को विसर्गादेिश |
२१४. भूरवर्षाभूरपुनर्भूः [२।२।५८ ]
३१६
[ सूत्रार्थ]
विभक्तिसंबन्धी स्वर के परे रहते 'वर्षाभू - पुनर्भू' शब्दों को छोड़कर 'भू' के ऊकार को 'उवू' आदेश होता है ।
[दु० बृ०]
7
भूरुवं प्राप्नोति विभक्तिस्वरे अवर्षाभूरपुनर्भूः । मित्रभुवौ मित्रभुवः । अतिभुवौ, अतिभुवः। अवर्षाभूरपुनर्भूरिति किम् ? वर्षाभ्वौ, पुन || २१४ |
[दु० टी०]
भू० । भूशब्द ऊकारान्त इत्यन्तरतम उव् प्रवर्तते, लिङ्ग्ङ्गस्यानेकाक्षरत्वाद् वत्वे प्राप्ते तदपवाद उव् आदिश्यते । 'मित्राद् भवति, मित्रं भूयात्' इति वा तिक्कृते संज्ञायामाशिषीति क्विप् | मित्रस्य भवनक्रियायाः कर्तव्यमिति कारकात् परो भूर्भवतीति, अतिभवतीति, अव्ययाच्च परो भवतीति । वर्षासु भवति, पुनर्भवतीति क्विप् । अथ किमर्थम् अवर्षाभूरपुनर्भूरिति नञ्द्वयं वर्षाभूश्च पुनर्भूश्चेति द्वन्द्वे पश्चान्नञ्समासे कृते सिध्यति ? सत्यम् | समाहारे ह्रस्वे सति प्रतिपत्तिगौरवं द्विवचनेऽप्युच्चारणगौरवं स्यात् ।
ननु च ‘भूरवर्षापुनर्भ्याम्' इति कथन्न विदध्यात् ? सत्यम् | न वर्षा अवर्षा, अवर्षा च पुनश्चेति विप्रतिपद्यते । यदि बाधकानन्तरं वर्षापुनर्भ्यां भुव इति नियमः क्रियते तदा विपरीतनियमोऽपि संभाव्येत - वर्षापुनर्भ्यां भुव एवेति । तथा च 'वर्षाभ्वौ, पुनर्ध्वो' इति न सिध्यति । वर्षाभूपुनर्ध्वोश्चेति कृतेऽपि सादृश्यात् कारकादाकारान्तादेव व्यावृत्तिः स्यात् । अव्ययाच्च व्यञ्जनान्तादिति । 'क्षमाभुवौ, स्वर्भुवौ' इति सिध्यति । 'क्षितिभुवौ, दिवाभुवौ' इति न सिध्यति । तस्माद् यथान्यासमेवाश्रयः इति । दृन्कराभ्यां भुवः प्रतिषेधः । दृन्भ्वौ । यदा कर एव कार इति स्वार्थे अणू, तदैकदेशविकृतस्यानन्यवद्भावात् ‘कारभ्वौ' इति । काराशब्दश्च स्त्रीलिङ्गविशिष्टो दृश्यते । कारभ्वाविति मतान्तरमेतत् || २१४|