________________
नामचतुष्टयाध्याये द्वितीयः सखिपादः
संप्रसारणं च । अत एव ज्ञापकात् तथा च वक्ष्यति - वचनात् संप्रसारणं सिद्धम् इति । अथवा ध्यानं धीः, सम्पदादित्वाद् भावे क्विप् । पूर्ववत् सम्प्रसारणे दीर्घे च पश्चात् 'शोभना धीर्यस्य' इति विग्रहे " अनेकाक्षरयोः " ( २ । २।५९) इत्यादिना यत्वे प्राप्ते वचनम् | अत एव प्रत्युदाहरणे यत्वं दर्शयति – 'प्रध्यौ, प्रध्यः' इति । यद्येवं ‘विमलधियौ, विमलधियः' इति कथमियादेश: ? सत्यम्, तत्राव्ययकारकाभ्यामेवायं विधिरिति वक्ष्यति ॥ २१३ |
३१५
[क० च०]
सुधीः । ध्यानं वा धीरित्यादि । ननु शोभना धीर्यस्येति विग्रहे कथम् “ अनेकाक्षरयोः” (२।२।५९) इत्यादिना यत्वस्य प्राप्तिः यावता अव्ययकारकाभ्यां भवद् यत्वं क्विप् समास एव भवति, यथा ' ग्रामण्यौ, ग्रामण्यः' इति । क्विप् समासाभावे अव्ययकारकाभ्यामपि न भवति । यथा 'कुधियौ, वृश्चिकभियः' इत्यादि । तस्माद् यत्वबाधनार्थमिदं वचनमिति कथमुच्यते ? सत्यम् । सुष्ठु ध्यायतीति प्रथमोक्तक्विप् समासपक्षमाश्रित्योक्तम् । शोभना धीर्यस्येति पक्षस्तु क्विप् समासस्थ इति पक्षमनादृत्य विषयोऽस्तीति न दोषः । ननु 'विमलधियः' इत्यत्र यत्वे प्राप्ते चोद्ये अव्ययकारकाभ्यामेव यत्वं वक्ष्यतीति कथं सिद्धान्तः । विमला धीर्विद्यते यस्त क्रियासंबन्धाद् विमलेत्यस्यापि कर्तृकारकत्वात् । नैवम् । विमलेत्यस्य विशेषणत्वेन क्रियासंबन्धाभावान्न कर्तृकारकत्वम्, किन्तु समानाधिकरणत्वादेका विभक्तिरिति हेमकराशयः ।। २१३। [समीक्षा]
"
'सुधी + औ, सुधी + जस्' इस अवस्था में कातन्त्रकार और पाणिनि दोनों ही ईकार को 'इय्' आदेश करके 'सुधियौ, सुधियः' शब्दरूप सिद्ध करते हैं । अन्तर यह है कि कातन्त्रकार ने साक्षात् सुधीशब्दस्थ ईकार को इय् आदेश का विधान किया है, जबकि पाणिनि ने " न भूसुधियो : " ( अ० ६ |४ |८५) सूत्र द्वारा साक्षात् यणादेश का निषेध करके इयङ् आदेश किया है ।
[रूपसिद्धि]
१. सुधियौ | सुधी + औ । प्रकृत सूत्र द्वारा सुधीशब्दस्य ईकार को 'इय्' आदेश |