SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये द्वितीयः सखिपादः ३२५ [रूपसिद्धि] १. ग्रामण्यौ । ग्रामणी + औ । ग्रामं नयतः । प्रकृत सूत्र द्वारा ई को यू आदेश । २. ग्रामण्यः । ग्रामणी + जस् । ग्रामं नयन्ति । प्रकृत सूत्र द्वारा नी गत ईकार को यकार तथा "रेफसोर्विसर्जनीयः " ( २ | ३ |६३ ) से स् को विसर्ग · | ३ . यबल्बौ । यवलू+ औ । यवान् लुनीतः । प्रकृत सूत्र से लू- धातुगत ऊकार को वकारादेश | ४. यबल्बः । यवलू+ जस् । यवान् सुनते । प्रकृत सूत्र से ऊ को व् तथा "रेफसोर्विसर्जनीयः " ( २ । ३ । ६३ ) से सकार को विसर्गादेश || २१५ २१६. भ्रूर्धातुवत् [ २।२।६०] [ सूत्रार्थ ] विभक्तिसम्बन्धी स्वरवर्ण के परवर्ती होने पर 'भ्रू' शब्द में धातुवद्भाव होता है || २१६ | [दु० वृ०] भ्रूशब्दो धातुवद् भवति विभक्तिस्वरे । भ्रुवौ, भ्रुवः । अतिदेशोऽयम् || २१६ । [दु० टी० ] i भ्रूसादृश्यं पुनः कार्यकृतमेव, तन्निष्ठत्वात् । प्रवृत्तेः शास्त्रकृतमपि यदि भवति, न कश्चिदिह दोषः । धातोर्यच्छास्त्रं तद् भ्रूशब्दस्यापीत्यर्थः । निमित्तादेशो व धातोर्निमित्तं क्रिया, सा भ्रूशब्दे स्वभावाद् द्रव्यवाचिनि नैव संभवति । रूपातिदेशो 1 नैव भ्रूशब्दो धातुरूप भवति । भ्रमेः भूरिति अन्तरतमत्वाद् भ्रमधातुः प्रतिपत्तव्यः । तदा वत्करणमनर्थकं स्यात्, भ्रूभ्रम इति वा विदध्यात् । अथ प्रकरणबलात् भ्रूधातुरूपमुवादेशश्चेत् तर्हि कार्यातिदेशादिह को भेदः । व्यपदेशातिदेशेऽपि प्रतिपत्तिरियं गरीयसीति सन्निहितपरित्यागे व्यवहितं प्रति कारण वाच्यम् इत्युवादेश एव न तु नाम्यन्तलक्षणो गुणः पश्चाद् उपधालक्षणो गुणश्चेत्, नैवम् । वत्करणस्य स्वाश्रयार्थत्वात् लिङ्गत्वमप्यस्ति । प्रकरणं वा नियामकमिति ।। २१६ | [वि० प० ] 1 भ्रूः । अतिदेशोऽयमिति । स च निमित्तरूपव्यपदेशशास्त्रकार्यभेदात् पञ्चधा भिद्यते । तत्र निमित्तातिदेशो यथा ब्राह्मणवत् क्षत्रियेऽपि प्रवर्तितव्यमिति । ब्राह्मणनिमित्तस्य
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy