________________
नामचतुष्टयाध्याये द्वितीयः सखिपादः
३१३
[दु० टी०]
ई० । ईच्च ऊच्चेति द्वन्द्वः । निर्दिश्यमानयोरिदुतोरेकवर्णयोरप्यनेकवर्णावियुवौ भवतो यथासंख्यम् । इवर्णोवर्णान्तस्य धातोरियुवौ स्वरादावगुण इति । लिङ्गाख्यस्य धातोरिदं विधानम् | अन्तरङ्गसंबन्धाच्च स्यादेरेव स्वर : संभवतीत्याह - विभक्तिस्वर इत्यादि । 'नियोऽर्थः, लुवोऽर्थ:' इति विग्रहः । स्वयम्भवतीति स्वयम्भूः, तस्येदमित्यण् । “उतोऽयुरुनुस्नुक्ष्णुवः” (३/७/१५) इत्यादिनिर्देशः सूत्रत्वात्, तपरकरणम् असन्देहार्थम् । “खोः” (४।१।३५) इत्युक्ते यकारवकारयोरित्याशङ्क्यते चेत्, नैवम् । खोर्व्यञ्जने लोपविधानात् ? सत्यम् । अव्ययं वृक्षवृश्चमाचक्षाणौ अव्ययौ 'वृक्षावौ' इत्यत्र च कारितस्य य्वोर्व्यञ्जने लोपो नास्तीति तदा दुष्यति । नैवम् । “नियो ङिराम् ” ( २ । १।७७) इति निर्देशादिति चेत्, अत्रापि यत्वे सति पश्चादियादेश इति । धातोरिति किम् ? लक्ष्म्यौ, लक्ष्म्यः इति । २१२ ।
[वि० प० ]
ईदूतोः । अनेकवर्णावपि इयुवौ एकवर्णयोरीदूतोरेव यथाक्रमं प्रवर्तेते | समुदायस्य ‘निर्दिश्यमानानामादेशिनामादेशाः' (का० परि० ७ ) इति न्यायात् शुद्धस्य धातोः “स्वरादाविवर्णोवर्णान्तस्य " ( ३|४|५५ ) इत्यादिना इयुवौ सिद्धौ । इह लिङ्गाख्यस्य धातोर्न स्यादिति वचनम् । यत्र च लिङ्गं तत्रान्तरङ्गसंबन्धाद् विभक्तेरेवेत्याह - विभक्तिस्वर इति । नयते: “सत्सूद्विष०" (४ । ३ । ७४) इत्यादिना क्विप्, लुनातेः क्विप् । चेति क्विप् । 'न्यर्थः, ल्वर्थ:' इति 'नियोऽर्थः, लुवोऽर्थः ' इति विग्रहः । तर्हि तद्धिते स्वरे कथमित्याह - स्वयम्भवतीति क्विप् । स्वयम्भुव इदमिति "तस्येदम्” (२।६।७ ) इत्यण् । वक्तव्यमिति रूढित्वादिति भावः ।। २१२ । [समीक्षा]
'नी + औ, नी + जस्, लू + औ, लू + जस्' इस अवस्था में कातन्त्रकार तथा पाणिनि दोनों ही ई को इयू तथा ऊ को उव् आदेश करके 'नियौ, नियः लुवौ, लुवः' शब्दरूप सिद्ध करते हैं । पाणिनि का सूत्र है - " अचि श्नुधातुभ्रुवां वोरियङुवङौ" (अ०६।४।७७)।