________________
३१२
कातन्त्रव्याकरणम्
(४ | ३ | ६४) इत्यादिना विटि कृते " विड्वनोरा" (४।१।७०) इत्यनेनान्ते अकारस्य कृतत्वात् । नैवम् । वर्णविधौ लाक्षणिकपरिभाषाया अनित्यत्वात् । अत एव टीकाकृतापि धातोरिति किम् ? 'खट्वाः पश्य' इत्यत्र लाक्षणिकोऽपि प्रत्युदाहृतः । श्रीपतिनापि धातुग्रहणमश्रद्धोपलक्षणमित्युक्तम् । तेन स्मृतः अः विष्णुर्येनासौ स्मृतास्तस्मै देहि स्मृते देहि । आ ब्रह्म स्मृतो येन असौ स्मृताः, तस्मै देहीत्यादिकं सिद्धम् | केचित्तु “विट्कमि०" (४ | ३ | ६४) इत्यत्र विड्ग्रहणमपनीय 'डा' इति कृते “विडूवनोः” (४।१।७० ) इत्यत्र विड्ग्रहणमपाकृतं भवति । तथापि यद् विड्ग्रहणं क्रियते तद् बोधयति आदेशाकारस्य लोप इत्याहुः ।। २११ ।
[समीक्षा]
‘कीलालपा + शस्, कीलालपा + टा' इस अवस्था में पा- धातुगत आकार का लोप कातन्त्र तथा पाणिनीय दोनों ही व्याकरणों में किया जाता है, जिससे 'कीलालपः, कीलालपा' शब्दरूप सिद्ध होते हैं । पाणिनि का सूत्र है - " आतो धातोः” (अ० ६।४।१४०)
[रूपसिद्धि]
१.कीलालपः । कीलालपा + शस् । प्रकृत सूत्र से आकार - लोप तथा "रेफसोर्विसर्जनीयः " ( २ | ३ | ६३ ) से सकार को विसगदिश ।
.
२ . कीलालपा । कीलालपा + टा । पूर्ववत् प्रकृत सूत्र से पा धातुगत आकार का लोप || २११ |
२१२. ईदूतोरियुवौ स्वरे [ २।२।५६ ]
[ सूत्रार्थ]
विभक्तिगत स्वर के परे रहते धातुस्थ ईकार को 'इय्' तथा ऊकार को 'उव्' आदेश होता है ।। २१२।
[दु० वृ०]
धातोरीदूतोरियुवौ भवतो यथासंख्यं विभक्तिस्वरे । नियौ, नियः । लुवौ, लुवः । विभक्ताविति किम् ? न्यर्थः, ल्वर्थः । स्वायम्भुवम् इति वक्तव्यम् ।