________________
३११
नामचतुष्टयाध्याये द्वितीयः सखिपादः [दु० वृ०]
धातोरकारस्य लोपो भवति अघुट्स्वरे । कीलालपः, कीलालपा । पुनरघुट्स्वरग्रहणं संबद्धाधिकारनिवृत्त्यर्थम् । तेन शङ्खध्मः ।।२११ ।
[दु० टी०]
आ धातो० । आ इति ङसोऽकारस्य दीर्घात् परलोपे निर्देशोऽयं प्रथमैकवचने हि 'काष्ठभिदः पश्य' इति अन्तस्याकारः प्रसज्येत । तदेतल्लोपानुवृत्तौ भवतीति । लोपानुवृत्तिश्च क्वचिदेकविभक्तिप्रयुक्तानामप्येकदेशोऽनुवर्तते एव । धातोरिति किम् ? 'खट्वाः पश्य' इति । "क्त्वो यप्" (४।६।५५) इत्यादिनिर्देशस्तु योगविभागाद् ‘आ' इत्येकयोगः 'विशेषातिदिष्टः प्रकृतं न बाधते' (का० परि० १९) इत्यघुट्स्वरग्रहणं संबध्यते । ततो 'धातोरघुट्स्वरे' इति यदृच्छाशब्दानामप्याकारान्तानां यदि कप्रत्ययो न दृश्यते तत्राप्याकारस्य लोपेन भवितव्यमिति मतम् । तथा च पदकारोऽप्याह - आतो लोपोऽनाप इति वक्तव्यम्, स्त्र्याकारं वर्जयित्वेत्यर्थः।
पुनरघुट्स्वर इत्यादि । अवमसंयोगो विभाषा च संबन्धशब्देनोच्यते । यथा लोके बहुशो भोक्तुकामेष्वागच्छत्सु देवदत्तेनात्र भोक्तव्यमित्युक्ते इतरेषां व्यावृत्तिः सिद्धा, तथेहापीत्यर्थः । तेन शङ्ख धमतीति विचि आकारलोपो नित्यत्वं च साधितमेव । अन्यः पुनराह - धमतेर्विच् न दृश्यते, तथापि विभाषानिवृत्त्यर्थमघुट्स्वरग्रहणं भविष्यति ||२११।
[वि० प०]
आ धातो०। कीलालप इति । कीलालं पिबतीति "आतो मन्" (४।३।६६) इत्यादिना विच् । पुनरित्यादि । यथा बहुषु भोक्तुकामेषु आगच्छत्सु सत्सु देवदत्तेनात्र भोक्तव्यम् इत्युक्ते यज्ञदत्तादीनां निवृत्तिरवसीयते । तथेहाप्यघुट्स्वरग्रहणात् तत्संबद्धस्य निवृत्तिरर्थात् । तेन वमसंयोगे नित्यं भवतीति । 'शङ्खमः' इति । शङ्ख धमतीति पूर्ववत् विच् ।।२११।
[क० च०]
आ धातोः। ननु ‘अब्जे देहि, अब्जि तिष्ठति' इत्यादौ कथम् आकारलोपो लाक्षणिकत्वात् । तथाहि – अप्सु जायते इति अप्पूज्जनधातो: “विट्क्रमि०"