SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३०२ कातन्त्रव्याकरणम् शब्दाः अघुट्स्वरव्यञ्जनादिषु दृश्यन्ते शब्दशक्तिस्वभावाद् व्युत्पत्तिरपि सिद्धा । ‘पद गतौ' (३।१०७), क्विप् । 'मसी परिमाणे' (३।६०), ततः इनन्तात् क्विप् । 'निश समाधौ' (१।२६६), विप् । हयूषन्दोषन्-इत्यौणादिका निपाताः ।। २०८। • [वि० प०] पात्० । व्याघ्रपद इत्यादि । व्याघ्रस्येव पादौ यस्य, एकः पादो यस्य, शोभनौ पादौ यस्य, कुम्भाविव पादौ यस्याः इति विग्रहे “सयआयत्वात्" (२१६।३७) पादशब्दस्य पाद्भावे कृते पश्चादघुट्स्वरे "पात् पदं समासान्तः” (२।२।५२) इति । प्रवर्तते । तथा चोक्तम् - बहुव्रीहावहस्त्याद्युपमानसंख्यासुभ्यः । पादस्य पाद्भावः । तथा "कुम्भपयादिषु च" (अ० ५।४।१३९) इति सद्यआयेषु निपातनं प्रति दर्शनादिष्टलक्षणमुपपद्यते इति । अस्यार्थः। हस्त्यादिवर्जितादुपमानात् संख्यायाः सुशब्दाच्च पादशब्दस्य पाद्भावस्तथा कुम्भपद्यादिषु चेति । तत्र हस्त्यादयः ‘हस्तिन् कटोल-कण्डोल-गडोल-गण्डोल- महिला-दासी-गणिका-कुशूल' एभ्यो न भवति । यथा 'हस्तिन इव पादौ येषां तान् हस्तिपादान् पश्येति । _ 'कुम्भपदी- कलसीपदी- शतपदी-जालपदी- अलिपदी- अशीतिपदी- सूत्रपदीगोधापदी-द्विपदी-अपदी- निष्पदी-विपदी-आर्द्रपदी-कल्याणीपदी-कृष्णपदी-द्रोणीपदीशूकरपदी-शकृत्पदी-अष्टापदी- चतुष्पदी- त्रिपदी- दासीपदी-शुचिपदी' इति कुम्भपयादयः। अत्रोपमानपूर्वं संज्ञापूर्वकं यत् पठ्यते तस्य सुखार्थेनैव सिद्धे स्त्रियामीकार एवेत्यवधारणार्थं पुनरिह पाठः । उपमानपूर्वं च यथा - गोधापदी, शूकरपदीत्यादि । संज्ञापूर्व च यथा - शतपदी, अष्टापदीत्यादि । अन्यत्र गोधापादान् पश्येत्यादि असमासान्त इत्यपीति अप्यधिकारादित्यर्थः । ननु कथमत्र पादस्य पाद्भावः, उक्तलक्षणस्यायोगादित्याह - पादेत्यादि । कथं पुनरेतद्, यावता "पदरुज०" (४।५।१) इत्यादिना घञन्तः पादशब्दः अकारान्त एवेति ? सत्यम् । यदा पादयते: क्विप् क्रियते तदैवमिति | न चेह हेत्वर्थो न घटत इति वक्तव्यम्, तस्येह विवक्षितत्वाद् अवश्यं चैतदङ्गीकर्तव्यम् – 'गूढपाद् भुजङ्गः' इत्यादिसिद्धये । न चात्र पद्भावनिपातनं प्रति लक्षणमस्तीति । यद्येवम्, सद्य आयेषु निपातनमनर्थकं स्यात्, अनेनैव सिद्धत्वात् । सत्यमेतत्, किन्तु उपमानादिभ्यः पादस्य स्थितिनिवृत्त्यर्थं पाद्भावनिपातनम् । तेन 'व्याघ्रपादान् पश्य' इत्यादि प्रयोगो न भवतीति । अथ यदि
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy