________________
नामचतुष्टयाध्याये द्वितीयः सखिपादः केवलस्यापि पदादेशस्तदा किमिह समासान्तग्रहणेन । 'येन विधिस्तदन्तस्य' (का० परि०३) इति न्यायात् समासान्तस्यापि भविष्यति । न चानेकवर्णत्वात् तदन्तसमुदायस्य प्रसङ्गः 'निर्दिश्यमानानामादेशिनामादेशाः' (का० परि०७) इति न्यायात् पाच्छब्दस्यैव भविष्यति, केवलस्यापि व्यपदेशिवद्भावात् ? सत्यम् । सुखार्थमेव समासान्तग्रहणमिति ।।२०८।
[क० च०]
पात्। स्त्रियामीकार एवेति । स्त्रियामेव ईकार एवेत्युभयनियमोऽपि बोध्यः । 'स्त्रियामेव' इत्यस्य व्यावृत्तिः पत्रिकायां गोधापादानिति इकार एवेत्यन्ये। व्यावृत्तिस्तु ‘दौ द्वौ पादौ ददाति द्विपादिका' इत्यत्र द्विपादशब्दात् “पादस्य संख्यादेर्वीप्सायाम्" इति तद्धिताक्प्रत्यये "इवर्णावर्णयोः" (२।६।४४) इत्यादिना अकारलोपे स्त्रियामाकारे पाद्भावो नास्ति । ननु स्त्रियामाकारे पाद्भावो नाम मा भवतु "इवर्णावर्णयोः" (२।६।४४) इत्यादिना अकारलोपे पादिति स्थिते तद्धिताघुट्स्वरे "पात् पदं समासान्तः" (२।२।५२) इति कथन्न प्रवर्तते ? सत्यम् । स्थानिवद्भावादत्र पदादेशो न भवतीति कुलचन्द्रः।
तदसङ्गतमिति महान्तः । यतः कुम्भपद्यादौ द्विपदी-शब्द एव नास्ति कथं प्रत्युदाहरणं संगच्छते । कथमन्यथा “नयादौ वा पादः" इत्यत्र ‘द्विपदी, द्विपात्, त्रिपात्' इत्युदाहरणं कृतम्, ईकाराभावेऽपि पाद्भावदर्शनात् । तथा काशिकायामपि संख्यापूर्वस्योदाहरणं 'द्विपदिका' इत्येव प्रदत्तम् । तस्मात् टीकायामपि द्विपदिकेति अहस्त्यादिसूत्रस्योदाहरणं बोद्धव्यम् । ततश्च द्विपदीति ईकारान्तात् शब्दात् तद्धिते इकण्प्रत्ययो वेदितव्यः । ईकार इत्यस्य व्यावृत्तिश्च शतपदिकेति द्रष्टव्या । एतेन कुम्भपद्यादौ द्विपदीशब्द इति यद् व्याख्यातम्, तदप्यशुद्धमेवेति दिक् ।। २०८।
[समीक्षा]
'व्याघ्रपाद् + शस्, व्याघ्रपाद् + टा, व्याघ्रपाद् + ई + सि, व्याघ्रपाद् + यण, एकपाद् + शस्, सुपाद्+ शस्, कुम्भपाद् + ई+सि' इस अवस्था में कातन्त्रकार तथा पाणिनि दोनों ही ‘पाद्' को 'पद्' आदेश करके 'व्याघ्रपदः, वैयाघ्रपद्यम्, सुपदः' आदि शब्दरूप सिद्ध करते हैं । पाणिनीय सूत्र है - "पादः पत्" (अ० ६।४।१३०)।