________________
३०१
नामचतुष्टयाध्याये द्वितीयः सखिपादः [दु० वृ०]
समासान्तः पाच्छब्दः पदमापद्यते अघुटस्वरादौ । व्याघ्रपदः, व्याघ्रपदा, व्याघ्रपदी, वैयाघ्रपद्यम् । एकपदः, सुपदः, कुम्भपदी । असमासान्त इत्यपि - पदः पश्य । पादसमानार्थः पादप्यस्तीति मतम् ।।२०८।
[दु० टी०]
पात् । 'व्याघ्रस्येव पादावस्य, एकः पादोऽस्य, शोभनः पादोऽस्य, कुम्भ इव पादोऽस्याः स्त्रियाः' इति विग्रहः । “बहुव्रीहावहस्त्यायुपमानसंख्यासुभ्यः" - पादस्य पाद्भावः । कुम्भपद्यादिषु च सद्यआयेषु निपातनम् प्रति दर्शनाद् इष्टलक्षणमुपपद्यते हस्त्यादेरुपमानान्न भवति । तेन ‘हस्तिपादान् पश्य' इति । 'हस्तिन्- कटोल- कण्डोलगडोल-महिला-दासी-गण्डिका-कुशूल - कुम्भपद्यादयश्च' – 'कुम्भपदी,शतपदी,जालपदी, अलिपदी, अशीतिपदी, सूत्रपदी, गोधापदी, कलसीपदी, विपदी, दासीपदी, अपदी, निष्पदी, आर्द्रपदी, कृष्णपदी, कल्याणीपदी, द्रोणीपदी,शूकरपदी, शकृत्पदी, अष्टापदी, शुचिपदी' । यच्चोपमानपूर्वं संख्यापूर्वं च पठ्यते, तस्य स्त्रियामेव ईकार एव इत्यवधारणार्थं निदर्शनम् ।
द्वौ द्वौ पादौ ददाति द्विपादिकं ददाति । पादस्य संख्यादेर्वीप्सायामप्रत्ययो दृश्यते । तद्धितार्थ इह समासः । अप्यधिकारादसमासान्त इत्यपि समासस्य योऽन्तोऽवयवो न भवति तथाप्यविशेषाद् भवतीत्यर्थः । पादसमानार्थ इत्यादि कथं पुनरेतत् ? सत्यम्, यदा पादयतेः क्विब् दृश्यते, विवक्षितेऽपि हेत्वर्थे साध्यभेदो नास्ति । तथा च दृश्यते – 'गूढपाद् भुजङ्गः' इति पाद्भावनिपातनं च पादस्थितिनिवृत्त्यर्थम् । यद्येवम्, समासान्तग्रहणमनर्थकं स्यात् । सत्यपि तदन्तत्वे 'निर्दिश्यमानस्यादेशः' (का० परि० ७) इति पाच्छब्दस्यैव भविष्यति केवलस्य व्यपदेशिवद्भावात् । तर्हि मन्दधियां सुखप्रतिपत्त्यर्थमिदम् । अघुट्स्वरादाविति किम् ? व्याघ्रपान्दि कुलानि । पादास्तिष्ठन्ति पादमाचष्टे - पादयति । पादमासनिशाहृदययूषदोषां पद्मास्निहृयूषन्दोषणो वा, अघुट्स्वरव्यञ्जनयोर्यथासंख्यम् । पदः, पादान् । पदा, पादेन । पद्भ्याम्, पादाभ्याम् । पद्भ्यः, पादेभ्यः । पत्सुः, पादेषु । मासः, मासान् । मासा, मासेन | माभ्याम्, मासाभ्याम् । निशः, निशाः । निशा, निशया । निड्भ्याम्, निशाभ्याम् । हृदा, हृदयेन । हृद्भ्याम्, हृदयाभ्याम् । यूष्णा, यूषेण । दोषा, दोष्णा । न वक्तव्यमेतत् । पदादणे हि