________________
कातन्त्रव्याकरणम्
४. प्राष्ठीयम् । प्रष्ठवाह् + यण् । "यण् च प्रकीर्तितः” (२ | ६ | १४) से 'यणू' प्रत्यय, प्रकृत सूत्र से वा को औ, लिङ्गसंज्ञा, सि- प्रत्यय तथा " अकारादसंबुद्धी मुश्च" (२।२।७) से सिलोप - 'मु' आगम || २०४ |
२०५. अन्वेरलोपः पूर्वस्य च दीर्घः [ २।२।४८ ]
[सूत्रार्थ]
घुट्-भिन्न स्वरादि प्रत्यय के परे रहते 'अन्चू' के अकार का लोप तथा उससे पूर्ववर्ती को दीर्घ आदेश होता है || २०५ |
[दु० वृ०]
अन्चेरकारस्य लोपो भवति अघुट्स्वरादौ प्रत्यये परे पूर्वस्य च दीर्घ आन्तरतम्या । प्रतीचः, प्रतीचा, प्रतीची, प्रातीच्यम् । गोऽचः, गोऽचा, गोऽची, गौच्यम् ॥ २०५ । [दु० टी०]
२९६
अन्चे० । अत एव ज्ञापकात् क्वावनुषङ्गलोपो नास्तीति गम्यते | नैवम् | अच इति निर्देशे किमयमच्प्रत्ययः, स्वरपर्यायो वेति विप्रतिपद्येत । ततश्च 'नोनुवः' इति अचोऽकारलोपेनैव नैमित्तिकस्याप्यभावे दीर्घः स्यात् । स्वरपर्याये च प्रतिगतोऽच्, अनुगतोऽच् ‘प्रत्यच्, अन्वच्' इत्यत्रापि स्यात् । अचो विप्रतिपत्तिनिरासार्थं नकारोच्चारणं कथं ज्ञापकं भविष्यति । ननु इगेव धातुनिर्देशाय कल्प्यते कथं न ज्ञापकम्, लोकोपचाराद्वा । कथं प्रागिति अन्चेरस्तातिलोपे अनुषङ्गलोप इति । यद्येवम्, गुरुमञ्चतीति क्विपि कृते, 'गुर्वञ्च' इत्यत्रापि स्यात् ? सत्यम् । अप्यधिकारादन्चेः पूजायां न भवतीति प्रतिपत्तव्यम्, पूर्वस्य च दीर्घ इति अन्वाचयशिष्टोऽयञ्चकारः गामञ्चतीति क्विपि कृते यथासंभवं दीर्घ इति अलोपः स्यात् । अत एव 'अञ्चेरत् पूर्वम्' इति न कृतम् | अन्चेरकार: पूर्ववर्णमापद्यते अपेक्षयेति पूर्वग्रहणे क्रियमाणेऽकारस्यैव दीर्घः स्याद् इति मन्यते, न च वक्तव्यम् 'अलोपदीर्घौ ' इति विदध्यात् । एवमपि नैव स्थानिनियम इति ॥ २०५ ।
[वि० प० ]
अन्वे० । ननु क्वावनुषङ्गलोपे सति अचेरिति निर्देशेन भवितव्यम्, ततः कथमयं सानुषङ्गनिर्देशः ? सत्यम् । अयमेव निर्देशो ज्ञापयति - अन्चेः क्वावनुषङ्गलोपो