________________
नामचतुष्टयाध्याये द्वितीयः सखिपादः
२९५
[दु० टी०]
बाहेर्बा० । वाहेरितीकारः श्रुतिसुखार्थः । ननु किमर्थमौत्वम् अधिकृतेन उत्वेन । विणि गुणे अकारस्यौत्वं भविष्यति । अनवर्णान्ते चोपपदे वहेर्विण् दृश्यते ? सत्यम् | एतद् औत्वम् 'असिद्धं बहिरगमन्तरङ्गे' (का० परि० ३३ ) इति न्यायस्य प्रमाणकम् । तेन ‘संस्क्रियते, संस्क्रियात्' । भिन्नपदाश्रयः सुडसिद्धो भवति । यद्येवम् अनेन वाशब्दस्योत्वे कृते कथम् अकारस्यौत्वम्, अनित्यत्वाभ्युपगमाद् भविष्यति । शब्दग्रहणं विस्पष्टार्थम् | अन्यथा वाहेर्वाशब्दस्य विकल्पेन और्भवतीति मन्यते || २०४ | [वि० प० ]
बाहेर्वा० । प्रष्ठौह इति । प्रष्ठो वहतीति " बहश्व" ( ४ | ३ |६१) इति विण् || २०४ ।
[समीक्षा]
‘प्रष्ठवाह् + शस्, प्रष्ठवाह् + टा, प्रष्ठवाह् + ई, प्रष्ठवाह् + यण्' इस अवस्था में कातन्त्रकार 'वा' को 'औ' आदेश करके 'प्रष्ठौहः, प्रष्ठौहा । प्रष्ठौही, प्राष्ठौह्यम्' शब्दरूप सिद्ध करते हैं । पाणिनि ने एतदर्थ ऊठ् सम्प्रसारण तथा वृद्धिविधान किया है – “बाह ऊं, एत्येधत्यूसु” (अ० ६ । ४ । १३२; १ । ८९) । कातन्त्रीय प्रक्रिया के भी अनुसार 'औ' आदेश के बाद 'अ' को 'औ' तथा परवर्ती औ का लोप होता है - " ओकारे औ औकारे च" (१।२।७) । अतः उभयत्र कार्यसंख्या की दृष्टि से साम्य ही कहा जा सकता है ।
-
[रूपसिद्धि]
१. प्रष्ठौहः । प्रष्ठवाह् + शस् । प्रकृत सूत्र द्वारा 'वा' को 'औ' "ओकारे औ औकारे च" (१।२।७) से ठकारोत्तरवर्ती अ को 'औ' एवं परवर्ती औ का लोप, सकार को विसर्गादेश - "रेफसोर्विसर्जनीयः” (२।३।६३) ।
२. प्रष्ठौहा । प्रष्ठवाह् + टा । पूर्ववत् 'वा' को 'औ' आदि ।
३. प्रष्ठौही । प्रष्ठवाह् + ई । "नदायन्चिवाह्०" (२।४।५०) से स्त्रीलिङ्ग में 'ई' प्रत्यय, प्रकृत सूत्र से 'वा' को औ, लिङ्गसंज्ञा, सि- प्रत्यय तथा उसका लोप ।