________________
नामचतुष्टयाच्या द्वितीयः सखिपादः
२१५ [दु० टी०]
श्वयुव० । 'युवन्- मघवन्' शब्दयोरुत्वे समानदीर्घ उवणे ओ भवति । 'असिद्ध बहिरङ्गमन्तरङ्गे' (का० परि० ३३) इत्यस्याभ्युपगमात् ‘श्वन्' शब्दोऽयमधिकृतो नान्तो वा तत्साहचर्याद् इतरयोरपि नान्तयोर्ग्रहणम्, तेन युवतीनां समूहो यौवतम् । मघवतः पश्येति । श्वन् - युवन्- मघोनां चेति नान्तं पठन्त्यन्ये अनान्तव्यावृत्त्यर्थम् । अप्यधिकारादित्यादि । 'शुनो विकारः, यूनो भावः' इति एवमादेरण, गुणो वृद्धिरागमश्च द्वारादित्वात् । मघवा देवता अस्य स्थालीपाकस्येति देवतार्थेऽण् । तद्धिते लक्ष्यतः इति । लक्ष्यानुरोधेन भवति चेत्यर्थः ।शुनः समीपम् इत्यव्ययीभावे राजाद्यन्तर्गणशब्दादेरत्प्रत्ययः संकोचार्थेऽणि न स्यादित्यर्थः । कारिते तु 'श्वनयति, यवयति' "स्थूलदूर०" (अ०६।४।१५६) इत्यादिना अन्तस्थादेर्लोपो गुणश्च - मघवयति ।।२०३।
[वि० प०]
श्वयुव० ।अप्यधिकारादित्यादि । शुनो विकारः, यूनो भावः' इत्येवमादित्वादण् । "बारादीनां च" (अ०७।३।४) अपदाधोरपीति वचनात् शुनो वृद्धिरागमः । यूनश्च "वृद्धिरादौ सणे" (२।६।४९) इति वृद्धिः । माघवन इति । मघवा देवता अस्य स्थालीपाकस्य इति देवतार्थे अण् । तद्धिते लक्ष्यतः इति । अप्यधिकारादिति सम्बन्धः । लक्ष्यतः इति लक्षणमनुसृत्य भवतीत्यर्थः । तेन पूर्वत्र न भवति, अत्र तु भवत्येव । उपशुनम् इति । शुनः समीपम् इति विग्रहे 'उपश्वन्' इति राजादिनिपातनाद् अत् | तथा संकोचार्थेऽणप्रत्ययेऽपि न भवति । शुनः संकोचः 'शौवः' इति "तस्येदम्" (२।६।७) इत्यण, "नस्तु क्वचित्" (२।६।४५) इति नलोपः ।।२०३।
[क० च०]
श्वयुव० । वृत्तौ यूनीति पाठो नास्तीति केचित् । 'यूनी काममियं दुनोति हृदयं वैधव्यभावाद् वधूः' इति कुलचन्द्रः । अन्ये तु "यूनस्तिः " (अ० ४।१।७७) इति नदादिविहितस्य ईकारस्य बाधकस्तिप्रत्ययोऽस्तीति । तेन युवतिरित्येव प्रयोगः । न चात्र 'लिङ्गग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' (का० परि० १७) इति न्यायादुत्वं वाच्यम्, विभक्तौ तस्यानित्यत्वात् । यन्मते यूनीति पाठस्तन्मते "यूनस्तिः" (अ० ४।१।७७) इत्यत्र वाऽनुवृत्तिरित्याशयः ।।२०३।