________________
नामचतुष्टयाध्याये द्वितीयः सखिपादः
२८७
तदानीमकारस्याभावे नास्त्येकार इति कथमीकारः स्यादिति । आदेरपि न भवति 'अन्त्याभावेऽन्त्यसदेशस्य ग्रहणम्' (का० परि० ३९) इति न्यायात् ।
यद्येवम्, कथममुकस्मादिति अकि कृते सति अनेकवर्णव्यवहितस्य दकारस्य मत्वं स्यादिति । नैवम्, तत्र बहुलत्वात् कृते मकारे पश्चादग् भविष्यति । तर्हि कथम् 'अमुया स्त्रिया, अमुयोः स्त्रियो:' इत्ययादेशे पदकार्ये कृतेऽनेकवर्णव्यवधानादिति ? सत्यम् | बहुवचनममीति निर्देशादकार एव स्थानी दृश्यते । अतोऽन्यत्रापि स एव स्थानी समूहनीयः । को हि नाम दृष्टपरिकल्पनां विहाय अदृष्टं परिकल्पयतीति । विभक्ताविति पूर्वसूत्रादुभयोरित्यनुवर्तनाद् विभक्ताविति लभ्यते । उभयोः प्रकृतिविभक्त्योः सत्योः अदसः पदे मो भवतीत्यर्थः । 'अमुष्माद्, अमुष्मिन्' इति कृते त्यदाद्यत्वे ङसिः स्यात् । “ङि: ः स्मिन् (२।१।२७) इति कृते दकारस्य मकारः, “उत्वं मात्” (२ | ३ | ४१) इति उत्वम् ।
""
विभक्ताविति । अमुमिच्छति यिन्, अमुष्य भाव इति त्वप्रत्ययः । असौ पुत्रोऽस्येति विग्रहेऽन्तर्वर्तिनीं विभक्तिमाश्रित्य सत्यामपि पदसंज्ञायां न भवति । तथा 'अद : कुलम्' इति स्यमोर्लोपे न भवति उभयोरभावात् । तथा अमुमतिक्रान्तेन अत्यदसेति | सत्यामपि विभक्तौ न भवति । न खल्वदसः पदमिदम्, I किन्तर्हि समासस्येति । अदमुयङित्यादि । अदसः परादञ्चते: अमुमञ्चतीति क्विप् । " विष्वग्देवयोश्च ” ( ४ | ६ |७० ) अन्त्यस्वरादेरद्र्यञ्चतौ क्वाविति अदसः अस्शब्दस्याद्र्यादेशः । ततो यथायोगं दस्य मकारः “उत्वं मात्” (२ | ३ | ४१) इत्युत्वम् । वक्तव्यमिति व्याख्यानं कर्तव्यमिति तत्रेदं व्याख्यानम् - केचिदिच्छन्ति केचिन्नेच्छन्ति । ये नेच्छन्ति तन्मतमिह प्रमाणमित्यर्थः । तथा चोक्तम् -
परतः केचिदिच्छन्ति केचिनेच्छन्ति पूर्वतः ।
उभयोः केचिदिच्छन्ति केचित्रेच्छन्ति चोभयोः ॥ २०१ ॥
[क० च०]
अदसः। वर्णान्तस्य विधिरिति । ननु पदग्रहणसामध्यदिवमकारातिरिक्तेषु पदकार्येषु पदशब्दो लक्षणया वर्तते इत्युक्तम्, तदा कथं 'वर्णान्तस्य विधिः' (का० परि० ५) इति न्यायेनान्तभूतस्य सकारस्य प्राप्तिरिति ? सत्यम् । पदशब्देन पदकार्यं