________________
२८८
कातन्त्रव्याकरणम् लक्ष्यते । ततश्च यावद् यत् किञ्चिच्च संभवति, तत्र यावत् पदकार्यपक्षे देश्यमेव नास्ति । यदि यत् किञ्चित् पदकार्यं लक्ष्यते तदा लिङ्गसंज्ञाविभक्तिकरणादिस्वरूपे पदकार्ये कृते 'वर्णान्तस्य विधिः' (का० परि० ५) इति न्यायेनान्तभूतस्य सकारस्य कथं मकारो न स्यादित्याह - नन्वित्यादि।
सत्यमिति पदग्रहणसामदेिव मकारातिरिक्तस्य यावत् पदकार्यस्य लक्षितत्वेन त्यदादित्वेनाघ्रातत्वादित्यर्थः । अन्यथा पदग्रहणाभावेऽपि लिङ्गसंज्ञाविभक्तिविधानकरणादिति स्वरूपपदकार्यं सर्वत्र संभवतीति । आदेरपीति । पर्यायेण दस्याकारस्य च स्यात्, न त्वादेः । तदा पुनः “ए बहुत्वे त्वी" (२।३।४२) इति वचनं व्यर्थ स्यात्, परस्यैत्वस्याभावात् । पर्यायपक्षेऽपि यदा दकारस्य मकारस्तदा सार्थकः स्यादिति भावः । भट्टेन पुनरन्यथैव व्याख्यातम् । नैवम्, तत्र बहुलार्थत्वादित्यादि । अथ पदैकदेशस्य विभक्तिनिमित्ताश्रयणेनाव्यवधानेन प्राप्तौ "ए बहुत्वे त्वी" (२।३।४२) इति बहुवचनसामथ्यदिकवर्णव्यवधानेऽपि भवतीति । एतद् युक्तिमूलकेन ‘अन्त्यसदेशस्यापि ग्रहणम्' (का० परि० ३९) इति परिभाषेति । ततोऽमुकस्मादित्यत्राक्प्रत्ययात् पूर्वं दस्य स्थाने मकारे कृते पश्चादक्प्रत्यये सति निमित्तस्य विभक्तेरतिव्यवधानान्निमित्ताभावान्नैमित्तिकमकारस्याभावः कथं न स्यात्, सत्यम् । 'प्राक् प्रवृत्तं कार्य बहिरङ्गेण नापसार्यते' इति न्यायान्न निवर्तते । अक्प्रत्ययस्य बहिरङ्गत्वम्, बाहुलकत्वात् । पश्चाद् भूतत्वेनोभयाश्रितत्वात् । अन्यथा बाहुल्याश्रयणेन किं साधितम् ।
अथ मकारे कृते मकारदर्शनादेव "उत्वं मात्" (२।३।४१) इति कथन्न वर्तते ? सत्यम् । अत्रापि बाहुल्याश्रयणेन उत्वस्य पूर्वमक्प्रत्ययो बोद्धव्य इति न दोषः । बहुवचनममीति निर्देशादिति ! ननु 'अमी' इत्यत्र ‘अन्त्याभावेऽन्त्यसदेशस्य ग्रहणम्' (का० परि० ३९) इति न्यायमादाय एकवर्णव्यवधानेनैव ज्ञापकस्य सिद्धत्वात् ‘अमुया स्त्रिया' इत्यत्र दृष्टान्तेनातिव्यवधाने कथं साध्यते । अतः को हि नाम दृष्टेत्यादिना यदुक्तं तदपि न संगच्छते, अतिव्यवधाने प्राप्तेरभावात् । सत्यम् । विभक्तिनिमित्तमाश्रित्य 'अन्त्याभावेऽन्त्यसदेशस्यापि ग्रहणम्' (का० परि० ३९) इत्याद्रियते, तस्यानादरेणापि साध्यस्य सिद्धिर्भवति । तथाहि “एद् बहुत्वे त्वी" (२ । ३।४२) इत्यत्र मादिति विशेषणाद् दकारस्यैव मकारो दृष्ट: । अतोऽन्यत्रापि क्लिप्तौ व्यवधानेऽपि स एव