________________
२८१
कातन्त्रव्याकरणम्
[दु० टी०]
अदसः।अदस इत्यादि । पूर्वपरयोः समुदायोऽर्थप्रतिपत्तिहेतुः पदं मकारमन्तरेण तन्नास्तीति पदग्रहणं सर्वकार्यप्रतिपत्त्यर्थम्, श्रुतत्वाद् अदस एव । “एद् रहुत्वे त्वी" (२।३।४२) इति वचनादेकवर्णोऽयम् ‘अन्त्याभावेऽन्त्यसदेशस्य' (का० परि० ३९) ग्रहणं भवति । कथम् ‘अमुकस्मात्' इति, दकारोऽयमनेकवर्णव्यवहित इति? सत्यम् । व्यवस्थितवाचनात् पश्चाद् अग् भवति यद्येवम्, ‘अमुया स्त्रिया, अमुयोः स्त्रियोः' इति न सिध्यति, तर्हि 'बहुवचनम् अमि' इति निर्देशात्, दकारः स्थानी दृश्यते । अन्यत्रापि दकार एव स्थानी समूहनीयः इति को हि नाम दृष्टपरिकल्पनां विहायादृष्टं परिकल्पयतीति । पद इति भावलक्षणा सप्तमी पदं वाऽऽधारः, पदावयवस्य दकारस्य मकार इति 'उभयोः' इत्यनुवर्तनाद् विभक्ताविति लभ्यते । उभयोः प्रकृतिविभक्त्योः सत्योरदसः पदे मो भवतीत्यर्थः । ___अमुमिच्छतीति यिन्, “तत्वौ भावे" (२।६।१३) अमुष्य पुत्र इति विग्रहः । वाक्यसमासपक्षे अन्तर्वर्तिनीं विभक्तिम् आश्रित्य पदसंज्ञास्तीति । किञ्च ‘अदः कुलम्' इति स्यमोर्लोपे सिद्धं भवति, अदसोऽप्रधानत्वे तु न भवति । तस्मान्नेदम् अदसः पदं किन्तर्हि समासश्चेति अमुमतिक्रान्तौ अत्यदसौ, अत्यदसः इति । अदसोऽत्र्यन्तस्य यथासम्भवं विभाषेत्यर्थः । उक्तं च,
परतः केचिदिच्छन्ति केचिदिच्छन्ति पूर्वतः।
उभयोः केचिदिच्छन्ति केचिन्नेछन्ति चोभयोः॥इति ।।२०१। [वि० प०]
अदसः। पद इति । अदसः सम्बन्धिनि पदे सति श्रुतत्वाद् अदस एव दकारस्य अकारः । पूर्वपरयोः समुदायोऽर्थप्रतिपत्तिहेतुः पदम् । तच्च यद्यपि मकारमन्तरेण न संभवति, तथापि पदग्रहणादिहान्येषु पदसम्बन्धिकार्येषु कृतेषु सत्सु पश्चान्मकारो भवतीत्यर्थः । ननु 'वर्णान्तस्य विधिः' (का० परि० ५) इति अन्तस्यैव सकारस्य प्राप्नोति कथं दस्येति ? सत्यम् । तस्य त्यदाद्यत्वेनाघ्रातत्वात् । तर्हि अकारस्य कथन्न भवतीति । नैवम् । “ए बहुत्वे त्वी" (२।३।४२) इति वचनाद् यद्यन्तस्याकारस्य मत्वं स्यात्