________________
नामचतुष्टयाध्याये द्वितीयः सखिपादः
२४९ परिभाषा के निर्वाहार्थ ङ्-अनुबन्ध की भी योजना की है – “अनङ् सौ" (अ० ७।१।९३)।
[रूपसिद्धि
१. सखा । सखि + सि । प्रकृत सूत्र से 'इ' को 'अन्' आदेश, "घुटि चासंबुद्धौ" (२।२।१७) से नकार की उपधा को दीर्घ, 'व्यानाच्च' (२।१।४९) से सिलोप तथा “लिङ्गान्तनकारस्य" (२।३।५६) से न्- लोप ।। १७९ ।
१८०. घुटि त्वै [२।२।२४] [सूत्रार्थ]
'सखि' शब्दस्थ अन्तिम वर्ण के स्थान में 'ऐ' आदेश होता है, घुट -संज्ञक प्रत्यय के पर में रहने पर || १८०।
[दु० वृ०]
सख्युरन्त ऐर्भवति घुटि परे । सखायौ, सखायः। घुटीति किम् ? सखीन् । तुशब्द उत्तरत्रासम्बुद्धिनिवृत्त्यर्थः ।। १८०।
[दु० टी०]
घुटि०। प्रथमैकवचनेऽना बाधितत्वात् शेषे घुटीति । तुशब्द इत्यादि । 'अव्ययाश्चानेकार्थाः' इत्युत्तरत्र निवृत्तावपि तुशब्दोऽयं वर्तते । तेन 'हे द्यौः' इति सिद्धं भवति ।। १८०।
[वि० प०] घुटि० । पूर्ववदिहापि स्त्रियां न भवति, ‘सख्यौ, सख्यः' इति ।। १८०। [क० च०]
घुटि० । तु-शब्द इत्यादि उत्तरत्र "औ सौ" (२।२।२६) इत्यर्थः । उत्तरत्राप्यसंबुद्धिनिवृत्तिं कुर्वाणोऽपि तुशब्दो वाक्यभेदे एव वर्तते । ऐत्वं घुटि त्वसंबुद्धौ दिवो वकारस्यौर्भवन् घुटि त्वसंबुद्धौ । सौ तु संबुद्धावपीत्यर्थः । यदि पुनरत्रैवासंबुद्धिनिवृत्त्यर्थस्तुशब्दः स्यात् तदा 'हे सखै' इति प्रयोगः स्यात् ।। १८०।