SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २४८ कातन्त्रव्याकरणम [दु० वृ०] सख्युरन्तोऽन् भवति सावसंबुद्धौ ।सखा ।असंबुद्धाविति किम् ? हे सखे ! ।। १७९। [दु० टी०] सख्युः । ननु कथं सखीति 'लिङ्गग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' (कात० प०१७) इति प्राप्नोति । न ‘सख्युः' इति रूपप्रधानोऽयं निर्देशः । यस्यैतद् रूपं संभवति तस्य सखिशब्दस्य तथैत्वमपि न भवति – सख्यौ, सख्यः । ‘अतिसखा, अतिसखायौ' इति भवति । अत्र अतिसखिशब्दस्यातिसख्युरिति रूपम् इह निश्चितम् । तत्र न केवलस्य सखिशब्दस्य ग्रहणमिति, अथवा 'विभक्तौ लिङ्गग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' (कात० प० १७) इत्यनित्येयम् । प्रयोजनं यथा शोभनाः पन्थानो यस्याः सा सुपथी स्त्री "पन्थिमन्थिमभुक्षीणां सौ" (२।२।३५) इत्यात्वं न भवति । यथा 'युवतीः पश्य' इति "श्वयुवमघोनां च" (२।२।४७) इत्युत्वं न भवति । यदि सखीयतीति क्विब् दृश्यते, सखीरिति रूढ्याश्रयणात् सिद्धम् । पृथग्योगोऽयमुत्तरार्थः ।। १७९ । [वि० प०] सख्युः। सख्युरिति रूपप्रधानोऽयं निर्देशः । यस्यैतद् रूपं संभवति, तस्यैवानादेशः । तेन सत्यपि 'लिङ्गग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' (कात० प० १७) इति वचने 'सखी स्त्री' इत्यत्र न भवति, विभक्तौ वाऽनित्यत्वमस्याः परिभाषायाः इति ।। १७९। [क० च०] सख्युः । ननु यदि रूपप्रधान एव कर्तुमिष्टः स्यान्निर्देशस्तदा सखेरित्युच्यताम्, किंसन्देहमूलकेनार्थानुकरणनिर्देशेन, तस्मादर्थप्रधाननिर्देशात् 'सखी स्त्री' इत्यत्रापि अन् स्यादित्याह - विभक्तौ वेति ।। १७९ । [समीक्षा] 'सखि + सि' इस स्थिति में कातन्त्रकार और पाणिनि दोनों ही आचार्य सखि-शब्दस्थ अन्त्य वर्ण इकार के स्थान में 'अन्' आदेश करके 'सखा' शब्द सिद्ध करते हैं । पाणिनि ने उच्चारणार्थ अकारानुबन्ध तथा “डिच्च" (अ० १।१।५३)
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy