________________
कातन्वव्याकरणम्
विकल्पमिच्छन्ति - हे उशन इति । तन्मतेनापि 'ना निर्दिष्टम् अनित्यम्' (कालापप० पा० ६७) इति नलोपः स्यात् । यदि "शौ च" (२।२।२१) इति चकार उक्तसमुच्चयार्थः क्रियते तदा प्रकृतः सिरेवानुवर्तते तदेह शावित्यस्याप्यनुवर्तनं न स्यात् । 'प्रियोशनांसि कुलानि' इति न सिध्यति । अन्तरङ्गोऽयमागमार्थो न भवति, यथा "अन्तस्यो रे पोः" (२।६।१९)। "दीडोऽन्तो यकारः" (३।४।२६) इति विशेषणविशेष्ययोः प्रयोक्तुरायत्तत्वादन्तो वर्णोऽन् भवतीत्यर्थः ।
ननु न - मात्रमेव कथं न विदध्यात्, सत्यप्यकारेऽकारलोपादन्तग्रहणं च न विधेयमिति एकवर्णत्वादन्ते भविष्यतीत्याह , अकार उत्तरार्थ इति । तर्हि "से" इत्युच्यताम्, डानुबन्धेऽन्त्यस्वरादेर्लोपे व्यञ्जनान्तत्वात् सिलोपो नास्ति, सन्निपातलक्षणत्वाड्डा इति दीर्धेच्चारणाच्च । नैवम्, असंबुद्धावित्यर्थवशात् षष्ठीप्रतिपत्तिरियं गरीयसीति ।। १७८।
[वि० प०]
ज्य०। हे उशन इत्यादि । उशनसः सम्बुद्धावप्यन् पक्षे भवति । तथा नकारस्यापि पक्षे लोपः, "न संबुद्रौ" (२।३।५७) इत्यत्रापि ना निर्देशस्य विद्यमानत्वाद् अनित्यमेवेति। तेन सान्तं नान्तमदन्तं चेति रूपत्रयं सिद्धं भवति । तथा च याप्रभूतिः
'संबोधने तूशनसस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम्' इति ।
ननु किमर्थमन् विधीयते नकार एवोच्यताम्, यतः कृतस्याप्यकारस्य लोपेन भवितव्यम् । एवं सत्यन्तग्रहणमप्यकरणीयं स्यात् । एकवर्णत्वादन्ते भविष्यतीत्याह - अकार उत्तरार्थ इति । “सख्युश्च"(२।२।२३) इत्यत्र लोपाभावे फलमित्यर्थः ।। १७८ ।
[क० च०]
उश० । नञोऽनित्यत्वादिति वृत्तिः। “न संबुद्धौ" (२।३।५७) इत्यत्र तु ना निर्दिष्टत्वादनित्यार्थः । यतः कृतस्यापीत्यादि । ननु कथं कृतस्याप्यकारस्य लोप इत्युच्यते । यतस्तस्मिन् निमित्ते सति पूर्वोऽकार एव लुप्यते ? सत्यम् । कृतस्याकारस्य पूर्वो योऽकारस्तस्य लोपेन भवितव्यमिति साध्याहारान्वयः। निमित्तसंबन्धे वा षष्ठी ।।१७८।