________________
२४४
कातवव्याकरणम्
"पञ्चमोपधाया धुटि चागुणे" (४।१।५५) इति दीर्घो न स्यादित्याह - अस्मादेवेत्यादि । यदि पुनः क्विपि दीर्घः स्यात् तदा हन्ग्रहणमनर्थकमेव स्यात्, साध्यस्य सिद्धत्वादिति । तेन भ्रूणहनीति सिद्धम्, तथा हनोऽकारलोपे भ्रूणनीत्यायपि सिद्धम्, अन्यथा कथमकारस्य लोपः स्यादिति ।। १७७।
[क० च०]
इन्छ । अनिनस्मन् इत्यादि । ग्रहणानुच्चारणीयानीत्यर्थः । अर्थवतेत्यादि । यथा अन् - प्रतिदीनः । दिवेः क्वनिप् । इन - दण्डी । तदस्यास्तीति इन् । अस् - ऊरुवाचाः । असुन् औणादिकत्वात् । मन् - शर्मा । “सर्वधातुभ्यो मन्" (उ० ४।२८)। अनर्थकनेति । अन् - दोष्णः । विन् - स्रग्वी । अस्-सुपयाः । मन् - प्रियधर्मा | बहुव्रीहौ धर्मस्य धर्मन् । अस्य तु प्रयोजनं मनन्तमान्तशब्देभ्यः इत्यत्र बोध्यम् । भ्रूणहनीति | ननु घुड्विषयेऽनेनैव दीर्घविधानात् प्रत्यासत्त्या घुड्विषये एव क्विपि दीर्घाभावस्य ज्ञापयितुमुचितत्वात् कथं वृत्रहणी, भ्रूणहनीति प्रयोजनम् अघुविषय इति, नैवम् । “हनेहेर्षिरुपधालोपे" (२।२।३२) इति वचनाद् ज्ञापकमिदं सर्वोद्दिष्टम्, कथमन्यथा उपधालोप इत्युपपद्येत इति अघुड्विषये क्विपि दीर्घविधानेनाकारलोपाभावात् ।। १७७।
[समीक्षा
सुदण्डिन् + (जस् - शस्) शि, दण्डिन् + सि' इस अवस्था में उभयत्र उपधादीर्घ - विधान करके 'सुदण्डीनि, दण्डी' शब्दरूप सिद्ध किए गए हैं | पाणिनि ने 'शि' तथा 'सु' में दीर्घविधायक दो सूत्र बनाए हैं – “इन्हन्पूषार्यम्णां शौ, सौ च" (अ० ६।४।१२, १३) । कातन्त्रकार तो चकारपाठ से पूर्ववर्ती सूत्र “अन्त्वसन्तस्य चाधातोः सौ" (२।२।२०) में पठित 'सौ' पद की अनुवृत्ति कर कार्यनिर्वाह करते हैं । अतः उनका लाघव स्पष्ट है।
[रूपसिद्धि]
१. सुदण्डीनि। (नपुंसकलिङ्ग) सुदण्डिन् + जस् - शस् । शोभना दण्डिनो येषु कुलेषु । “जस्शसौ नपुंसके' (२।१।४) से घुट्संज्ञा, "जस्शसोः शिः" (२।२।१०) से 'शि' आदेश तथा प्रकृत सूत्र से दीर्घ ।