SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये द्वितीयः सविपादः - २४३ [दु० टी०] इन्० ।‘येन विधिस्तदन्तस्य' (कात० प० ३) इति केवलस्य व्यपदेशिवद्भावात् । शोभना दण्डिनो येषु कुलेषु इति विग्रहः । हनः 'अर्थवतो ग्रहणेऽनर्थकस्य ग्रहणं न भवति' (कात० प० ४) इति 'प्लीहानौ, बह्वहानौ' इति । इनस्त्वनर्थकस्यापि ग्रहणम् भवतीत्युक्तमेव स्रग्वी, वाग्मी । बाचो ग्मिनिः । शौ सावेवेत्यादि “ घुटि चासंबुद्धौ” (२।२।१७) इति सिद्धे सत्यारम्भो नियमार्थ :- इनादीनां प्रकृतीनां शौ सौ नियमे क्रियमाणे प्रत्यययोरनियतयोरन्येषां दीर्घो भवत्येव - वनानि, राजेति । " यदि पुनरयं प्रत्ययनियमः स्याद् इनादीनामेवेति, तदा सन्ध्यक्षराणीति निर्देशो न स्यात् । अस्मादेवेत्यादि । " हनः क्वि ब्रह्मभ्रूणवृत्रेषु" (अ० ३ । २ । ८७) इति क्विप् । यदि पुनः “पञ्चमोपधाया घुटि चागुणे” (४|१|५५) इति क्विपि दीर्घः स्यात् तदा हनूग्रहणमनर्थकमेव स्यात् । तेन भ्रूणहनी, भ्रूणनीति सिद्धमेव । ननु घुविषये हनः क्विपि दीर्घो नास्तीति प्रत्यासत्त्या न कथं ज्ञापकं भवति ? नैवम् । “हनेर्हेर्षिरुपधालोपे" (२।२ । ३२) भवति, अनुपधालोपे न भवतीति व्यावर्तनाद् व्याप्तिः सिद्धेति घुट्युपधाया इति प्रकृतित्वादनुपधालक्षण आयिप्रत्यये दीर्घः स्यादेव - भ्रूणहायते इति ।। १७७ । [वि० प० ] इन्० । 'सुदण्डीनि' इत्यादौ शोभनो दण्डी येषु कुलेषु इति विग्रहे नपुंसके “जस्शसोः शिः, घुटि चासम्बुद्धौ” (२।२।१०, १७) इति दीर्घत्वं सिद्धम्, अतो नियमार्थमेवेत्याह – शौ सावेवेत्यादि । प्रकृतिनियमश्चायं तेनामीषाम् अन्यस्मिन् घुट्यपि दीर्घो न भवति । कथन्तर्हि 'प्लीहानौ, बह्वहानौ' इति, सत्यम् । हनोऽनर्थवतो ग्रहणेऽनर्थकस्येति नियमेन व्यावृत्तेरभावादिति दीर्घः स्यादेव । यद्येवं 'स्रग्विणौ' इत्यत्रापि दीर्घप्रसङ्गः, विन्प्रत्ययैकदेशस्य इनोऽनर्थकतया व्यावृत्तेरयोगादिति ? सत्यम् । इनोऽनर्थकस्यापि ग्रहणम् “ओदन्ताः” (१ । ३ । १ ) इत्यत्रान्तग्रहणेन ज्ञापितमेव । तथा चोक्तम् – 'अनिनस्मनुग्रहणान्यर्थवता अनर्थकेन च तदन्तविधिं प्रयोजयन्ति' ( व्या० प० पा० १२९) । इनादीनामेवेति कथं न प्रत्ययनियमः इति चेत्, नैवम् । सन्ध्यक्षराणीति दीर्घनिर्देशात् । “क्विब् ब्रह्मभ्रूणवृत्रेषु " ( अ० ३।२।८७ ) इति हनः क्विपि कृते
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy