________________
२४१
नामचतुष्टयाध्याये द्वितीयः सखिपादः पुंस्यपि 'दीर्घाहो निदाघः' इति । नपुंसके पुंसि च रूपभेदो नास्तीत्यर्थः । नायमुपदेशेऽसन्तः ‘अहः सः" (२।३।५३) इति विधानात् । तर्हि किमन्तग्रहणेन 'औपदेशिकप्रायोगिकयोरौपदेशिकस्यैव ग्रहणम्' (कात० प० ४२) भविष्यति ? नैवम् । यिनन्तो हि धातुरौपदेशिक एव (ते धातव इति वचनाल्लभ्यते) अन्तुरित्युदनुबन्धविशेषणात् पचन्नित्यत्र न स्यात् । ननु "सर्वधातुभ्योऽसुन्" (५।३४) इति कृते ऊरुव्यचा इत्यादिष्वेव स्यात् । अर्थवद्ग्रहणे नानर्थकस्य' (कात० प० ४) इति न्यायात् , नैवम् । अधातोरिति प्रतिषेधादनर्थकस्यापि भवति । अथ अस् इति अस्यतीति क्विपि दृश्यते चेत् तथापि 'अनिनस्मन्ग्रहणान्यर्थवताऽनर्थकन च तदन्तविधि प्रयोजयन्ति' (व्या०प० पा० १२९) इति ज्ञापितमेव । ‘ग्रसु ग्लसु अदने, वस आच्छादने' (१।४४५; २।४७)। पिण्डं ग्रसति, चर्म वस्ते इति क्विप् ।। १७६ ।
[वि० प०]
अन्त्व० । अन्तुश्च अस् च अन्त्वसौ तावन्तौ यस्येति विग्रहे बहुव्रीहिणा यद्यपि समुदाय उच्यते, तथापि श्रुतत्वादन्त्वसोरेव स्वरस्य दीर्णो न व्यवहितस्येत्याह - श्रुतस्यात इति । पुंस्यपीत्यादि । दीर्घाण्यहानि यस्मिन् निदाघे “अह्नः सः" (२।३।५३) इति नकारस्य सकारः, नपुंसके तावत् तदुक्तप्रतिषेधाद् दी? न भवति । पुंलिङ्गेऽपि अन्तग्रहणस्योपदेशार्थत्वादित्यपेरर्थः । यद्येवं न विद्यते प्रजा यस्येति अप्रजाः, शोभनाः प्रजा यस्येति सुप्रजाः इत्यत्र दीर्घो न स्यात् । न ह्ययमुपदेशोऽसन्तः किन्तर्हि प्रजाशब्दस्य बहुव्रीहावसन्तता विधीयते । तथा च टीकायामुक्तम् – “नसुदुर्थ्यः प्रजायास्तु बहुव्रीहावसन्तता" इति । तदयुक्तम् । नैतच्छर्ववर्मणा कृतं लक्षणमपि त्वेवम्भूता एवामीशब्दा इति । तथा च तत्रैव दर्शितम् – 'किमेतेन प्रयत्नेन शब्दा एवेदृशा अमी' इति । 'पिण्डग्रः, चर्मवः' इति। ग्रसु ग्लसु अदने, वस आच्छादने । पिण्डं ग्रसति, चर्म वस्ते इति क्विप् ।। १७६। [क० च०]
० । दीर्घाहो निदाघ इति वृत्तिः। 'अह्रो रेफे" (द्र०, कात० परि०, सं० ८०, इति रेफो न भवति । "न सिलोपे व्यञ्जनात्" (कात० परि०, सं० ८१) इति श्रीपतिना प्रतिषेधात् । 'दीर्घाहो निदाघः' इत्यत्र दीर्घ पठन्ति पाणिनीयाः । तन्त्रान्तरेऽप्यदृष्टत्वात् तदुपेक्षितम् । अत एव श्रीपतिनाप्यत्र दीर्घ इष्यते इत्युक्तम् ।। १७६ ।