________________
२४०
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. आपः। अप् + जस् । प्रकृत सूत्र से उपधासंज्ञक अकार को दीर्घ तथा "रेफसोविसर्जनीयः" (२।३।६३) से सकार को विसर्ग आदेश ।
२. स्वाम्पि तडागानि ।(नपुंसकलिङ्ग) स्वप् + जस् । शोभना आपो येषु तडागेषु, दानि । “जस्शसोः शिः" (२।२।१०) से जस् को शि आदेश, “धुदस्वराद् घुटि
" (२।२।११) से नु आगम, प्रकृत सूत्र से न् की उपधा को दीर्घ तथा नकार को अनुस्वारादेश ।। १७५।
१७६. अन्त्वसन्तस्य चाधातोः सौ [२।२।२०] [सूत्रार्थ]
सम्बुद्धिभिन्न 'सि' प्रत्यय के पर में रहने पर अन्त्वन्त तथा असन्त शब्दों में अकार को दीर्घ होता है, धातु को छोड़कर || १७६ |
० ०] 'अन्तु-अस्' इत्येवमन्तस्याधातोः श्रुतस्यातः सावसम्बुद्धौ दीर्घो भवति । भवान्, गोमान्, सुस्रोताः । पुंस्यपि - दीर्घाहो निदाघः । अधातोरिति किम् ? पिण्डग्रः, चर्मवः । असंबुद्धाविति किम् ? हे सुस्रोतः ! ।। १७६ ।
[दु० टी०]
अन्तु० । अन्तुश्च अस् च अन्त्वसौ तावन्तौ यस्येति बहुव्रीहिः । समुच्चयाद् यत् परं श्रूयते तत् प्रत्येकमभिसंबध्यते । अन्त्वन्तस्यासन्तस्य चेत्यर्थः । श्रुतस्यात इति । अन्तुशब्दस्यास्शब्दस्याव्यवहितस्य नातिव्यवहितस्येत्यर्थः । केचिद् अन्तु- इत्यस्य नोपधायाः, असन्तस्य चोपधाया दीर्घ इति यथासंबन्धं संबध्नन्ति । अन्तुग्रहणमुपदेशपरिग्रहार्थम् । गोमत्यतीति क्विपि कृतेऽधातोरिति प्रतिषेधो न भवति, यिनो लोपे सति पुनर्नकारश्रुतिरेव व्यञ्जनेऽनुषङ्गलोपः स्यात् । मलोपश्चेति नियमोऽयम् अतो 'न वर्णाश्रये प्रत्ययलोपलक्षणम्' (व्या० प० पा० ९६) इति युज्यते । क्विप्प्रत्ययेऽपि नैय नलोपोऽनिदनुबन्धानाम् इति पर्युदासाद् गणपठितानामेव, तेन ‘गोमान्' इति सिद्धम् ।