________________
२३.
नामचतुष्टयाप्याये द्वितीयः सविपादः
२॥ [दु० वृ०]
अप इत्येतस्य नोपधाया अनोपधायाश्च दीर्घो भवति, घुट्यसम्बुद्धौ । आपः, स्वाम्पि तडागानि । असंबुद्धाविति किम् ? हे शुच्यप् ।। १७५ |
[दु० टी०]
अप० । अपशब्दोऽयं स्वभावादेकार्थोऽपि बहुवचनान्तो यद्यपि, तथापीहानुकार्यानुकरणयोर्भेदस्याविवक्षयैकवचनम् | चकारोऽयमधिकृतेन नोपधाग्रहणेन संबध्यमानोऽनुक्तं समुच्चिनोतीत्याह - नोपधाया अनोपधायाश्चेति । एतच्च भिन्नयोगाल्लभ्यते । शोभना आपो येषु तडागेषु इति विगृह्य 'समासान्तविपिरनित्यः' (व्या० ५० वृ० ७५) इति राजादित्वाददन्तता नास्ति । ये तु सनुकस्यापो दीर्घत्वं नेच्छन्ति, तन्मते चकारोऽयमनुक्तसमुच्चयमात्रे । तदन्तविधिना च "स्वाप्ये हस्वः" इति स्वाम्पीति अत्र न भवति, योगविभागबलात् सत्यपि सामान्येऽप इत्यवयवावयविसंबन्धेन षष्ठीत्वादपः स्वरस्यैकवर्णव्यवहितस्यैव भवति ।। १७५ |
[वि० प०]
अपः। अपशब्दोऽयं स्वभावाद् बहुवचनान्तो यद्यपि तथाप्यत्रैकवचनमनुकार्यानुकरणयोर्भेदस्याविवक्षितत्वात् । चकारोऽयमधिकृतेन नोपधाग्रहणेन संबध्यते । अतोऽनुक्तमप्यनोपधात्वं समुच्चिनोति योगविभागबलादित्याह - नोपधाया अनोपधायाश्च इति । स्वाम्पीति । शोभना आपो येषु तडागेषु इति विग्रहे "पन्थ्यपुपुर" (२।६७३- १९) इति राजादिपाठेऽपि "स्वतिभ्यां पूजायाम्" (२।६।७३-६२) अदन्तता नास्तीति समासान्तविधेरनित्यत्वात् "धुस्वराद् घुटि नुः" (२।२।११) इति नुरागमः ।।१७५।
[समीक्षा]
'अप् + जस्, स्वम्प् + जस्' इस अवस्था में कातन्त्रकार नोपध तथा अनोपध उभयविध 'अप्' शब्द में दीर्घविधान करके आपः, स्वाम्पि' शब्दरूप सिद्ध करते हैं। पाणिनि ने केवल अनोपध ही 'अप्' शब्द में दीर्घ-विधान किया है -
"अपतृन्तत्स्वसृनप्तृनेष्ट्रत्वष्ट्रातृहोतृपोतृप्रशास्तूणाम्" (अ०६।४।११)। काशिकाकार आदि व्याख्याकारों के अनुसार कुछ आचार्य 'बह्वाम्पि' प्रयोग भी साधु मानते हैं - "वहाम्पि तडागानि इति केचिदिच्छन्ति। तत्र समासान्तो विपिरनित्य इति समासान्तो न क्रियते। नित्यमपि च नुपमकृत्वा दीर्घत्वमिष्यते" (का० वृ० ६।४।११)।