________________
नामचतुष्टयाध्याये द्वितीयः सखिपादः
गृह्यते । अत्रापि पूर्ववदन्तग्रहणं व्याख्येयमित्याह - सान्तस्येत्यादि । महच्छब्दोऽयमक्विबन्तस्तत्सहचरितोऽक्विबन्तो गृह्यते इत्याह- महतः साहचर्यादिति । सुष्ठु हिनस्तीति क्विप् ।। १७४ ।
[वि० प० ]
२३७
सान्त० । नश्चासावुपधा चेति नोपधा, न तु नस्योपधा नोपधा इति । तदा नकारस्यानियतत्वात् ‘सुमनसौ' इत्यत्रापि दीर्घः स्यात् । कर्मधारये तु नकारस्योपधाभूतस्योपधाया इत्यर्थो भवति । अधिकृतोपधासंबन्धाद् उपधात्वं पुनर्व्यवहितस्य वचनाद् एकवणपेिक्षया वेदितव्यम् इति । श्रेयानिति । प्रशस्यते इति प्रशस्य ः “ दुहिशंसिभ्यां क्यच्” इति वचनात् क्यप् । ततस्तमादिदर्शनाद् द्वयोरेकस्य निर्धारणे ईयन्सुप्रत्ययः। तस्मिन् “प्रशस्यस्य श्रः” (अ० ५ | ३ | ६० ) इति चुरादिवचनात् श्रादेशः । यद्यत्र संयोगान्तस्य परत्वाल्लोपः, तदाप्यलुप्तवद्भावाद् दीर्घो भवति । पूर्ववंदिहापि अन्तग्रहणं मन्तव्यमित्याह – सान्तस्येत्यादि । महच्छब्दोऽयमक्विबन्तस्तत्साहचर्यात् सान्तस्याप्यक्विबन्तस्य ग्रहणम् इत्याह- महतः साहचर्याद् इत्यादि । सुहिन् इति । 'हिसि हिंसायाम्' (६।१५), सुष्ठु हिनस्तीति क्विप् ।। १७४ ।
[क० च०]
सान्त० । नित्यत्वादन्तरङ्गत्वादपवादत्वात् स्वरादेशत्वाद् वा आदौ दीर्घे पश्चात् संयोगान्तलोपे निमित्ताभावाद् दीर्घाभावः कथं न स्यादित्याह - अलुप्तवद्भावादिति । 'समहतोर्नोपधायाः' इति कृते येन विधिरित्यादिन्यायेनान्तत्वे लब्धे यदन्तग्रहणं तदवधारणार्थम्, स एवान्तो यस्येत्याह -- पूर्ववद् इति । नन्वत्र नकार एव नास्ति, सानुस्वारत्वादिति चेत्, न । “हनिकणिवणिभ्यः सः" इत्यनेनैव हनेरौणादिकसकारविधानात् नकारोऽस्त्येव, तथाप्यनुस्वारस्य व्यक्तौ प्रवृत्तत्वादनुस्वारपरो नकार इति भाव इति चेत् कथं ‘श्रेयांसि' इत्यत्र दीर्घः ? व्यक्तित्वादनुस्वारे प्रवृत्ते नकाराभावात् । तत्र च वाच्यं वचनादनुस्वारविधिं बाधित्वा दीर्घ इति चेत् प्रकृतेऽपि तुल्यम् इति हेमकर
स्याशयः ।
महच्छब्दोऽयमक्विबन्त इति । ननु कथमिदमुच्यते - महत्यतीति यिनन्तात् क्विपि कृते " खोजनेऽये" (४|१|३५) इति यलोपे महान् इति पदं स्यादेव ।