________________
२०
कातन्त्रव्याकरणम्
उभयत्र साम्य ही हे । पाणिनि का उपधादीर्घविधायक सूत्र है- "सर्वनामस्थाने चासंबुद्धौ" (अ० ६।४।८)।
[रूपसिद्धि]
१. राजा। राजन् + सि । प्रकृत सूत्र से न् की उपधा को दीर्घ, "यजनाच्च" (२।१।४९) से सि-प्रत्यय का लोप तथा “लिङ्गान्तनकारस्य" (२।३।५६) से नकार का लोप।
२. राजानौ । राजन् + औ । प्रकृत सूत्र से नान्त उपधा को दीर्घ आदेश ।
३. सामानि । सामन् + जस्-शस् । “जस्शसोः शिः" (२।२।१०) से 'शि' आदेश, “जस्शसौ नपुंसके" (२।१।४) से 'शि' की 'घुट' संज्ञा तथा प्रकृत सूत्र से दीर्घ आदेश ।। १७३।
१७४. सान्तमहतोपधायाः [२।२।१८] [सूत्रार्थ]
संबुद्धिभिन्न घुट्संज्ञक प्रत्ययों के परे रहने पर सकारान्त शब्दों में तथा 'महन्त्' शब्द में न् की उपधा को दीर्घ आदेश होता है ।। १७४ |
[दु० वृ०]
'सान्त-महन्त्' इत्येतयोर्नकारस्योपधाया दी? भवति घुट्यसंबुद्धौ । श्रेयान्, श्रेयांसौ । महान्, महान्तौ। असंबुद्धाविति किम् ? हे श्रेयन्, हे महन् । सान्तस्येति किम् ? हंसम्, हंसौ । महतः साहचर्याद् धातोर्न स्यात् – सुहिन्, सुहिंसौ ।। १७४।
[दु० टी०]
सान्तः । श्रेयानिति प्रशस्यस्य श्रः, ईयन्सुश्च निपात्यते । संयोगान्तस्यालुप्तवद्भावाल्लोपेऽपि दी? भवति । सान्तमहतोरिति किम् ? उदश्विन्ति । नोपधाया इति किम् ? सुमनसौ । ननु सान्तमहतोर्नस्योपधाया इत्युच्यमाने नकारः पुनरनियत एव कथमिह दी| न भवति? नैवम् । नश्चासावुपधा चेति विगृह्य अधिकृतेनोपधाग्रहणेन संबन्धो नोपधाया उपधाया इति । यदि पुनः ‘अन्त्याभावेऽन्त्यसदेशस्य' (कात० प० ३९) ग्रहणमुच्यते, तदा पुनरुपधाग्रहणं सुखप्रतिपत्त्यर्थमेव । ननु अन्त्याद् वर्णाद् यः पूर्वः स उपधोच्यते, कथमतिपूर्वस्य उपधात्वमिति चेत्, वचनसामर्थ्यादपेक्षया