SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये द्वितीयः सविपादः २३५ [दु० बृ०] नान्तस्य लिङ्ग्ङ्गस्योपधाया दीर्घो भवति घुट्यसंबुद्धौ । राजा, राजानौ, सामानि । नान्तस्येति किम् ?जनम्, जनौ । असंबुद्धाविति किम् ? हे राजन् ! || १७३ । [दु० टी०] घुटि० | नान्तस्येत्यादि । अकारेऽकारस्य लोपे, औकारे औत्वे च सति 'परनिमित्तादेशः पूर्वस्मिन् स एब' (कात० प० ४४) इति न्यायान्नान्तत्वमस्त्येवेति दीर्घः प्राप्नोति । न च ‘दीर्घविधिं प्रति स्वरादेशः स्थानिवद् भवति' इत्यन्तग्रहणे सति न एव अन्तो यस्य स नान्त इति तदेव लिङ्गं नान्तम्, कुतो 'जनम्, जनौ' इति दीर्घप्रसङ्गः । सखेति नान्त एवायमेकयोगेनापि सिध्यति चकारेण 'सनौ' इत्यनुकृष्यते, भिन्नयोगस्तु सुखप्रतिपत्त्यर्थ एव ॥ १७३ ॥ [वि० प० ] घुटि० | जनम्, जनाविति । ननु चाकारेऽकारस्य लोपे औकारे औत्वे च सति नान्तत्वमस्त्येव, ततश्च ‘परनिमित्तादेशः पूर्वस्मिन् स एब' (कलाप०, पृ० २२१, क्रम० ४७) इति न्यायाद् घुट्त्वस्य विद्यमानत्वात् कथमिह दीर्घो न भवतीति ? सत्यम्, 'येन विधिस्तदन्तस्य' (कात० प० ३ ) इति सिद्धे यदन्तग्रहणं पूर्वसूत्रे तदिहार्थमिति वक्तव्यम् । तेन न एवान्तो यस्य तदेव नान्तं लिङ्गम्, कुतोऽत्र प्रसङ्गो जनशब्दस्याकारान्तत्वात् । तर्हि अकारस्य स्थानिवद्भावादेव नान्तत्वाभावे दीर्घो न भविष्यति, किमन्तग्रहणेनेति, नैवम् | “न पदान्त०” (कलाप०, पृ०२२६, क्रम०११) इत्यादिना दीर्घविधिं प्रति स्थानिवद्भावस्य प्रतिषेधात् स्यादेव दीर्घः । यद्येवं सखेति न सिध्यति ? सत्यम् । यदा नकारस्तदा नान्त इति नकार एवान्तो यस्येति दीर्घो न विहन्यते || १७३। [क० च० ] घुट० । नान्तस्येति किमिति वृत्तिः । नस्येत्युच्यतां किमन्तग्रहणेनेति भावः । सखेत्युपलक्षणमिदं पन्थानमित्याद्यपि बोध्यम् । न एवेति अन्त एव नकारो यस्येति योजना अन्तग्रहणे चान्तमात्रस्य नियमात् || १७३। [समीक्षा] ‘राजन् + सु-औ, सामन् + जस् - शस्' इस अवस्था में कातन्त्रकार तथा पाणिनि दोनों ने ही उपधादीर्घ करके 'राजा, राजानौ, सामानि' शब्दरूप सिद्ध किए हैं । अतः
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy