SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २२७ नामक्तुष्टयाप्याये द्वितीयः सविपादः [वि० प०] भाषितपुं० । सोमपेनेति । सोमं पिबतीति “आतो मन्" (४।३।६६) इत्यादिना विच् । यद्यत्र पुंवद्भावः स्यात् तदा नपुंसकलक्षणे ह्रस्वनिवृत्तौ आ पातोरदस्वरे" (२।२।५५) इत्याकारलोपः स्यात् । नपुंसके पुनरन्तरङ्गत्वात् "स्वरो हस्वो नपुंसके' (२।४।५२) इति ह्रस्वे सति नादेश एव । कल्याण्या इति । यदि पुंवद्भावः स्यात् तदा ईकारनिवृत्तावकारान्तत्वात् "डेर्यः" (२।१।२४) स्यात् । नात्र भाषितः पुमान् येन शब्देन तद् भाषितपुंस्कमिति शब्दोऽन्यपदार्थत्वेनाश्रीयते, किन्तर्हि अर्थ इत्याहभाषितपुंस्कमिति । भाषितः पुमान् यस्मिन्नर्थे इति विग्रहे पुंशब्दादेकार्थान्नित्यं कप्रत्ययस्तत्र बहुलार्थत्वादिति । केन पुनः शब्देनात्र पुमान् भाषितः इति चेत्, यस्य पुंवद्भावो विधातुमिष्यते, तेनैव तस्यैव प्रत्यासन्नत्वात् । यदि पुनर्येन केनचिच्छब्देन भाषितपुंस्कत्वमिहाश्रीयते तदा भाषितपुंस्कग्रहणमनर्थकमेव स्यात् । अर्थशब्देनाप्यविधीयमानत्वात् सर्वस्यैवार्थस्य भाषितपुंस्कतया व्यावृत्तेरयोगात् । यदि पुनरिह बहुव्रीहिणा शब्द उक्तः स्यात् तदा पीलुशब्दस्यापि पुंवद्भावः स्यात् । तथा ह्ययं वृक्षे पुंसि वर्तित्वा यदा लोकोपचारात् फले नपुंसके वर्तते तदा भवति भाषितपुंस्क इति । अर्थे तु समाश्रीयमाणे नैष दोषः । यतः प्रत्यासत्या एकस्मिन्नेव प्रवृत्तिनिमित्तेऽर्षे यत्र पुमान् भाषितः स एव भाषितपुंस्कोऽर्थः। यथा कर्तृशब्दः पुंसि, नपुंसके, स्त्रियां च वर्तमानः करणक्रियानिमित्तमेकमुपादाय वर्तते, तथा मृदुशब्दश्च मृदुत्वमिति । तेन करणक्रियालक्षणो मृदुलक्षणश्चार्थो भवति भाषितपुंस्क इति । इह तु पुंसि वर्तमानस्य पीलुशब्दस्य वृक्षत्वं प्रवृत्तिनिमित्तं नपुंसके च फलत्वमिति । न फलत्वलक्षणोऽर्थो भाषितपुंस्क इति । अत एव समानायामाकृताविति न वक्तव्यम् , अस्यार्थस्य सामर्थ्यलब्धत्वात् । तथाहि आक्रियेते जन्येते अनया बुद्धिशब्दावित्याकृतिः। शब्दस्य प्रवृत्तिनिमित्तमर्थ एवोच्यते । ननु यदि शब्दस्य प्रवृत्तिहेतुरर्थो मृदुत्वादिलक्षणो भाषितपुंस्कशब्देनोक्तः किन्तर्हि नपुंसकलिङ्गं भाषितपुंस्कमिति तस्यार्थधर्मान्तरत्वेन प्रवृत्तिहेतुत्वानुपपत्तेः ? सत्यमेतत् । किन्तु समवायलक्षणसंबन्धेन संबन्धित्वान्नपुंसकमपि भाषितंपुस्कमुच्यते । भवति हि तत्सम्बन्धात् तद्व्यपदेशः । यथा दण्डयोगाद् दण्डः पुरुष इति । तथार्थे
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy