________________
कातन्त्रव्याकरणम्
२२॥ तर्हि 'पीलुर्वृतः, पीलु फलम्, पीलुने फलाय' इत्यत्र पुंवद्भावः स्यात् । पीलुशब्दश्चायं पुंसि वृक्षे वर्तित्वा यदि पीलोः फले विकारे वर्तते तदा नपुंसके फले वर्तते इति भवति हि भाषितपुंस्कम् । विकारेऽणपि न भवत्यभिधानात्, ततः समानायामाकृताविति न वक्तव्यम् । आक्रियेते जन्येते बुद्धिशब्दावनयेत्याकृतिः। शब्दस्य प्रवृत्तिकारणमिहाकृतिरभिप्रेता न सन्निवेशो न जातिमात्रम् । तदेवं तुल्ये प्रवृत्तिनिमित्ते भाषितपुंस्कं नपुंसकं वा पुंवद् भवति ।
तथाहि कर्तृशब्दस्य पुंसि नपुंसके च वर्तमानस्य करणक्रियानिवर्तनं प्रति कर्तृत्वं समानाकृति प्रवृत्तिनिमित्तं तथा मृदुशब्दस्य मृदुत्वं गुणः , पीलु-शब्दस्य तु पुंसि वृक्षजातिः प्रवृत्तिनिमित्तं नपुंसके च फलजातिरिति समानायामाकृतौ भाषितपुंस्कं पीलुशब्द इति तदेतन्न वक्तव्यम् । शब्दोऽत्र नाश्रीयतेऽन्यपदार्थत्वेन किन्तर्हि अर्थ इति भाषितः पुमान् यस्मिन्नर्थे स भाषितस्कोऽर्य इति प्रत्यासत्तेरेव | यदि येन केनचिच्छब्देन भाषितपुंस्क इहाश्रीयते, तदा व्यावृत्तेरभावाद् भाषितपुंस्कग्रहणम् अनर्थकमेव स्यात्, तस्माद् यस्मिन् प्रवृत्तिनिफित्ते यत्र पुमान् भाषितः स एव भाषितपुंस्क इति ।
ननु शब्दस्येह प्रवृत्तिनिमित्तकृतोऽर्थोऽन्यपदार्थत्वेनाश्रितो न तु नपुंसकम् । नैष दोषः। एतत्समवायलक्षणेन संबन्धेन संबन्धान्नपुंसकमपि भाषितपुंस्कमुच्यते । भवति हि तद्योगात्ताच्छाब्द्यम् । यथा 'पष्टीः प्रवेशय' । यष्टिहस्ताः पुरुषा यष्टय उच्यन्ते। तथा भाषितपुंस्कनपुंसकाभिधायि शब्दरूपमपि भाषितपुंस्कमित्युच्यते वाच्यवाचकलक्षणसंबन्धात् । तत्र यद्यपि सूत्रेऽर्थो भाषितपुंस्कशब्देनोक्तस्तथाप्यर्थे कार्यासंभवाद् यथोक्तप्रकारेण भाषितपुंस्को यः शब्दः स पुमर्थो भवतीत्यर्थः । किं पुनस्तत् कार्यं यत् पुंलिङ्गस्य नपुंसकस्य वा भवतीति न्वागमाभावो ह्रस्वाभावश्च । तेन ह्रस्वाश्रयाणि न कार्याणि । 'टा ना' (२।१।५३) । ग्रामण्या कुलेन । उ एत्वम् - ग्रामण्यै कुलाय । उसिङसोरलोपश्च – ग्रामण्यः कुलात् कुलस्य वा । आमि च नुः - ग्रामण्यां कुलानाम् । डिरौ सपूर्वः – ग्रामण्यां कुले इति । ग्रामनयनं प्रति कर्तृत्वाद् भाषितपुंस्कता। न च वक्तव्यम्- परत्वान्वागमादीन् यत्वं बाधते । यस्मादन्तरङ्गो ह्रस्वो यत्वमेव बाधते । पुमानिव पुंवदिति वतिप्रत्यये पुंसोऽन्शब्दलोपसंयोगान्तलोपाविति ।। १७०।