________________
२२५
नामचतुष्टयाच्याये वितीयः सविपादः होती और लाघव भी होता । इसका समाधान यह है कि "ईछ्योर्वा" (२।२।५४) सूत्र से 'डि' प्रत्यय में वैकल्पिक अकारलोप होकर 'अस्थिन- अस्थनि' आदि दो-दो रूप सिद्ध हों, अतः 'अन्' आदेश किया गया है । अन्यथा 'अस्थिन, दधि' आदि एक ही रूप निष्पन्न होता ।। १६९।
१७०. भाषितपुंस्कं पुंवद् वा [२।२।१४] [सूत्रार्थ]
भाषितपुंस्क तथा नाम्यन्त नपुंसकलिङ्गवाले शब्दों का टा-आदि प्रत्ययस्थ स्वर वर्ण के परे रहने पर विकल्प से पुंवद्भाव होता है ।। १७०।
[दु० वृ०]
भाषितपुंस्कं नाम्यन्तं नपुंसकलिङ्गं टादौ स्वरे पुंवद् भवति वा । कर्ता, कर्तृणा कुलेन । मृदवे, मृदुने वस्त्राय । भाषितपुंस्कमिति किम् ? वारिणे । नाम्यन्तमिति किम् ? सोमपेन कुलेन । नपुंसकमिति किम् ? कल्याण्यै । भाषितपुंस्कोऽर्थ इति किम् ? पीलुने फलाय ।।१७०।
[दु० टी०]
भाषितः । इदुदन्तस्य तृतीयैकवचनं नोदाहृतं नादेशे न्वागमे चाविशेषात् 'वारिणः' इति सर्वकालं नपुंसकवृत्तित्वादस्येति न पुंवद्भावः । सोमपेनेति यदि पुंवद्भावः स्यात् तदा “आधातोरघुट्स्वरे" (२।२।५५) इत्याकारलोपेऽनिष्टरूपं स्यात् । सोमं पिबति' इति विच् । नपुंसके त्वन्तरङ्गत्वाद् ह्रस्वत्वे सति इनादेशः । कल्याण्यै इति । यद्यत्र पुंवद्भावः स्यात् तदाकारान्तत्वात् "यः" (२।१।२४) स्यात् । टादाविति किम् ? ग्रामणिनी कुले । नपुंसकत्वाद् ह्रस्वे औकारस्य चेकार इति ।
स्वर इति किम् ? अतिनुभ्याम् । यदि पुंवद्भावः स्यात् तदा औकारस्य स्थितिः स्यात् । यथा 'अतिनावा, अतिनुना' इति । भाषितपुंस्कं नाम्यन्तमिति चाधिकृतस्य नपुंसकस्य विशेषणं भाषितपुंस्कस्य नपुंसकस्यान्यार्थवृत्तेर्बहुव्रीहिः । भाषितः पुमान् येन नपुंसकलिङ्गेन तद् भाषितपुंस्कं पुंशब्दादेकान्नित्यं कप्रत्ययो बहुलत्वात्,