SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २२८ कातन्त्रव्याकरणम् कार्यस्यासंभवात् तद्वाचिनि शब्दे कार्यसंप्रत्यय इति भाषितपुंस्कं नपुंसकाभिधायि शब्दरूपमपि भाषितपुंस्कमुच्यते, तत्रापि वाच्यवाचकलक्षणसंबन्धस्य विद्यमानत्वात् । अतो यद्यपि सूत्रे भाषितपुंस्कशब्देनार्थो निर्दिष्टस्तथापि शब्द एव पुंवत्कार्यं लभ्यते, नार्थस्तत्र तस्यासंभवात् । भाषितपुंस्को नपुंसकलिङ्गो यः शब्दः स पुंलिङ्गकार्यभाग् भवतीत्यर्थः। तत् पुनः पुंलिङ्गकार्यं न्वागमाभावो ह्रस्वाभावश्च नपुंसकस्य भवतीति ।। १७०। [क० च०] भाषित० । पुमानिव पुंवत्, स्त्रीति लोकतः सिद्धमिति न्यायात् स्त्रीलिङ्ग एव पुंवद्भावः प्रतीयते । अत एव वृत्तौ कल्याण्या इति प्रत्युदाहृतम् । नपुंसकग्रहणे तु विवाद एव नास्तीति । ननु कथं प्रत्युदाहृतं वृत्तौ कल्याण्या इति व्यङ्गविकलत्वात् । तथाहि भाषितपुंस्कस्य कल्याणशब्दस्य यथा नपुंसकवृत्तिता नास्ति तथा नाम्यन्ततापि नास्ति, तस्या एव प्रकृतेरुपयुक्तत्वात् । नाम्यन्तकल्याणीशब्दस्य स्त्रीविषयत्वेन भाषितपुंस्कताया अभावात्, सत्यम् । कल्याणीसमुदायावयवस्य कल्याणशब्दस्य भाषितपुंस्कत्वाद् अवयविनोऽपि कल्याणीशब्दस्य भाषितपुंस्कत्वमुच्यते, उपचारात् । अन्यथा यद्येवं व्याख्यानं न स्यात् तदा पुंवद्भाषित इत्यत्र पूरण्यादिवर्जनमनर्थकं स्यात् । पञ्चमीभार्यः' इत्यादिषु स्त्रीकारान्तस्य भाषितपुंस्कत्वाभावादिति केचित् । तन्न । अन्यथोपपत्तावुपचाराश्रयणस्यानौचित्यात् । तथाहि पुंवत्कार्यं भाषितपुंस्कशब्दस्य विधीयते । तस्मिंश्च सति अर्थात् स्त्रीप्रत्ययादिकं निवर्तते इति । ननु तथापि प्रकृतेयङ्गविकलता केन निवारिता ? उच्यते - न हीह "नामिनः स्वरे"(२।२।१२) इत्यतो नामिन इति प्रथमान्ततयानुवर्तते । किन्तु "अस्थिदधि०" (२।२।१३) इत्यत्र दृष्टेन षष्ठ्यन्तेनार्थस्य संभवात् ततश्च नामिसंबन्धे भाषितपुंस्कमित्यर्थे सति प्रकृते प्रत्युदाहरणे सति सुतरां भाषितपुंस्कार्थकल्याणशब्देनपि संबन्धोऽस्त्येव । तर्हि सोमपेनेत्यत्र एकारनामिसंबन्धेनातिप्रसङ्गः स्यादिति । नैवम् । टादावित्यनेन नामिनः इत्यस्यापि संबन्धात् ततष्टादा वर्तमानो यो नामी तत्संबन्धिभाषितपुंस्कष्टादौ पुंवद् भवतीत्यर्थः । एकारस्तु टादेरेव । यद् वा नपुंसकाभावपक्षे वृत्तौ नाम्यन्तमपि न व्याख्येयम् । न च ईकारेण टादीनां व्यवधानाद् भाषितपुंस्कस्य कल्याणशब्दस्य तथापि पुंवन्न भवतीति वाच्यम्, "साऽस्य देवता" (२।६।७) इति निर्देशात् स्त्रीप्रत्ययेन व्यवधानता नेष्यते इति ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy