________________
कातन्त्रव्याकरणम्
उच्चारणीयमित्यर्थः। तहिं 'कुर्वन्ति कृष्यन्ति कुलानि ' इति पूर्वस्य नस्य णत्वं स्यात् । अनुस्वारीभूतो हि णत्वमतिक्रामति । नैवम् 'असिद्धं बहिरङ्गम् अन्तरगे' (कात० प० ३३) इति पूर्वस्याप्यनुस्वारः । 'श्रेयांसि' इत्यनुस्वारद्वित्वेऽपि श्रुतेरभेदः । बह्व्यः ऊर्जा येषु कुलेष्विति बहुव्रीहिः । बार्त्तिककारोऽप्याह - तत्र 'बहूर्जि प्रतिषेध:' इति तत्रेति द्वन्द्वपक्षे । ननु गोमन्तीति किमिति प्रत्युदाहृतम्, श्रुतेरभेदात् । नैवम्, ‘गोमत्कुलानि' इति समासे नलोपे पुनर्नलोपो न स्यात्, जातौ चरितार्थत्वाद् “व्यञ्जनान्तस्य यत्सुभोः” (२।५।४) इति शास्त्रातिदेशे च न संयोगान्तयोरलुप्तवद्भावात् पुनर्लोपो न स्यात्, अनुषङ्गसंज्ञाभावात् । धुट्स्वरादिति किम् ? सुदिवि स्वहानि । वकारस्य दन्त्योष्ठ्यस्य धुट्संज्ञा नास्तीति । धुटीति वचनं जस्शसोरागमित्वनिरासार्थं न्वागमेन च येन नाप्राप्तिन्यायेन शिरादेशो बाध्यते । परभावे लिङ्गस्यासंबन्धात् 'शौ' इति कृतेऽपि किन्नाम लाघवमिति ।। १६७ ।
[वि० प० ]
घुट्० | धुट् च स्वरश्च धुट्स्वरमिति समाहारत्वादेकवचनं पञ्चम्याः । तत् पुनरर्थवशाद् द्विधा भिद्यते पूर्वदिग्योगतया परदिग्योगतया चेत्याह - धुटः पूर्व इति । पयांसीति । “सान्तमहतोर्नोपधायाः” (२।२।१८) इति दीर्घः, तथा स्वरात् परं दर्शयति – 'पद्मानि ' इति । शोभनः कर्ता, शोभनः सखा येषु कुलेष्विति विग्रहः । कथमित्यादि । सुष्ठु क्रुञ्चस्तीति क्विप्, “अनुषङ्गश्चाक्रुशेत्” (२।२।३९) इति ज्ञापकाद् अनुषङ्गलोपः, क्विप् नास्तीति । गावो विद्यन्ते येषां कुलानामिति विग्रहे भूम्नि मन्तुप्रत्ययः । सुष्ठु वल्गन्तीति क्विप् । 'उख नख' इत्यादिना ' दण्डको धातुः । सर्वत्र “जस्शसोः शिः” (२।२।१० ) । अन्त्यात् स्वरात् परो धुटः पूर्वो नुर्विधीयमानोऽन्तस्थानुनासिकाभ्यां व्यवस्थितत्वाद् धुटः पूर्वो न भवतीति परिहरति-धुटो व्यवस्थितत्वाद् इति ।
२१६
-
गोरङ्क्षीति । अव रक्ष पालने । गां रक्षतीति क्विप् । “जस्शसोः शिः " (२।२।१०) इह धुडिति जातिनिर्देशोऽयं जातेश्चैकत्वान्नास्ति व्यवधानमिति जातेर
१. उख णख वख मख रख लख रखि लखि इखि ईखि वल्ग रगि लगि अगि वगि मगि ष्वगि इगि रिगि लिगि गत्यर्थाः (१।३८ ) ।