________________
नामचतुष्टयाध्याये द्वितीयः सखिपादः
मूर्तत्वेऽपि धुटः पूर्व इति व्यवहारो व्यक्त्यपेक्षया भवति । बहूर्जीत्यादि । ऊर्ज बलप्राणधारणयोश्चुरादाविनन्तात् " क्विप् च” (४ | ३ | ६८) इति कर्तरि क्विप् सम्पदादित्वाद् भावे वा । बहवो ऊर्जा येषु कुलेष्विति बहुव्रीहिः । वक्तव्यम् इति । व्याख्यानं वक्तव्यमित्यर्थः । तत्रेदं व्याख्यानम् केचिदिच्छन्ति केचिन्नेच्छन्ति । ये नेच्छन्ति तन्मतमिह प्रमाणमित्यर्थः ।। १६७ ।
२१७
[क० च०]
धुट्० | ननु स्वरग्रहणं किमर्थम् " आगम उदनुबन्धः" (२।१ । ६) इत्यादिना स्वरात् परम् आगमस्य सिद्धेः ? सत्यम् । यत् पुनरिह स्वरग्रहणं तत् केवलान्त्यस्वरादप्यागमार्थम्, यथा ‘पद्मानि ' इति । शोभनः कर्तेति बहुव्रीहौ "नघृदन्ताद्बहुव्रीहौ " इति को न भवति, समासान्तविधेरनित्यत्वात् । ननु 'उपकुम्भम्' इत्यंत्र जस्शसोरमादेशे कृते न्वागमः कथन्न स्यात् । " स नपुंसकलिङ्गं स्यात् ” ( २।५।१५) इत्यनेनाव्ययीभावसमासस्य नपुंसकत्वेन जस्शसोर्घुट्त्वात् ? सत्यम् । पूर्वसूत्रात् शेरनुवर्तने शिरूपे घुटि नुर्भवतीत्युक्ते कुतोऽमूरूपे नुप्रसङ्ग इति कुलचन्द्रः । ननु अमादेशे कृतेऽपि ‘यस्य स्थाने' (कात० प० पा० ९१ ) इति न्यायात् शिरेव कथन्न स्यात्, नैवम् । ‘सकृद्गत०' (कात ० प० ३६ ) इति न्यायान्न भवति । नपुंसकस्य लक्ष्यानुसारित्वादित्यादिना । ननु पूर्वसूत्रात् शेरनुवर्तने सिध्यति, किमर्थं घुग्रहणम् ? सत्यम् | कुलचन्द्रमते सुखार्थम् ।
1
(पाठाधिक्यम्) ननु यदि घुटीति निमित्तसप्तमी तदा 'आगमादेश०' (कात० प० ४०) इत्यादिपरिभाषा नास्त्यस्मादिति किमर्थं परान्न भविष्यति, निमित्तस्य व्यवधानादेवेति केचित् ? सत्यम् । नपुंसकप्रत्यासन्नघुटीति संबन्धे पकाराद् भवन्नपि समुदायस्यानन्तर्यम् अस्त्येवेति अन्त्यादित्युक्तम् । 'बहूर्जि' इत्यत्र जात् प्राक् तेन रेफात् पूर्व इति शङ्का निरस्तेति हेमकरस्याशयः || १६७ ।
[समीक्षा]
‘पद्म + जस्, पयस + जस्' इस स्थिति में कातन्त्रकार 'नु' आगम का विधान स्वर (स्वरान्त्य लिङ्ग ) के बाद तथा धुट् से पूर्व में करके ' पद्मानि पयांसि' शब्दरूप सिद्ध करते हैं । पाणिनि ने "नपुंसकस्य झलचः " (अ० ७।१।७२) सूत्र द्वारा 'नुम्'
"