________________
नामचतुष्टयाच्या द्वितीयः सखिपादः
२१५ [दु० ०]
धुटः पूर्वः स्वरात् परो नपुंसकलिङ्गस्य घुटि परे नुरागमो भवति । पपानि, पयांसि । सुकर्तृणि, सुसखीनि । कथं सुक्रुञ्चि, गोमन्ति, सुवल्गि ? धुटो व्यवहितत्वात् । गोरङ्क्षीति धुड्जातित्वाददोषः । 'बहूजि, बहूर्जि' इति वा वक्तव्यम् ।। १६७।
[दु० टी०]
धु० । धुट् च स्वरश्च धुट्स्वरम् । समाहारत्वादेकवचनं वर्णमात्रादेव पञ्चमी प्रस्तुतत्वाच्च सम्बन्धो नपुंसकाद् विहिते घुटि “आगम उदनुबन्धः स्वरादन्त्यात् परः" (२।१।६) इत्याह - धुटः पूर्व इत्यादि । एकापीयं पञ्चमी अर्थवशात् पूर्वपरदिग्योगलक्षणा मन्तव्या । अर्थाच्च नपुंसकलिङ्गमागमि | विहितविशेषणत्वाच्च बहुपयसोऽतिदधीन् पश्यन्तीति नुर्न भवति ! "नामिनः स्वरे" (२।२।१२) नुरस्त्येव 'आद् धुटो घुटि नुः' इति कथन्न विदध्यात्, ‘सुकर्तृणि, सुसखीनि' इत्यत्र आरमैत्वं च बाधित्वा स्वरदर्शनादेव नुर्यथा स्यादेतदर्थं स्वरग्रहणम् । कथम् ‘अतिजरांसि, प्रियतिसृणि कुलानि' नपुंसके उक्तेन नुनावयवस्य व्यवधानादादेश इति । ___ अन्य आह -धुट्स्वरादिति नैव द्वन्द्वो वाक्यमेतत् स्वरात् परो धुट् चेत् नपुंसकस्य नुरिति कथं कुण्डानि, वनानि । सन्ध्यक्षराणि व्यञ्जनानि इति ज्ञापकादप्यकारान्नुरनुमीयते, नैवम् । द्वन्द्व एव युक्तः परत्वादेवारादीन् नुर्बाधते । 'सुसखीनि' इत्यत्र परत्वाद् घुट्येत्वेऽपि कृते "स्वरो हस्वो नपुंसके' (२।४।५२) इत्यन्तरङ्गत्वाद् ह्रस्वे पश्चान्नुभवति तथा 'अतिजरांसि, प्रियतिसृणि' परत्वादेव तर्हि “अकाराद् घुटि नुः" इत्युक्ते "नामिनः स्वरे" (२।२।१२) इत्युक्तिबाधापि स्यात्, तस्मात् स्वरग्रहणं कथमित्यादि चोद्यम्, धुटो व्यवस्थितत्वादिति परिहारः । स्वरात् परो धुटः पूर्वो नुर्विधीयमानोऽन्तः स्थानुनासिकाभ्यां व्यवहितत्वाद् धुटः पूर्वो न भवतीत्यर्थः । गोरक्षीति। धुडिति जातिनिर्देशोऽयं जातेरेकत्वाद् व्यवधानता नास्तीति भावः । यद्यपि जातिरेका निरवयवा सर्वासु विभक्तिषु लीना, तथापि गुणभूताधारापेक्षया पूर्वपरप्रतिपत्तिः प्रतीतैव । यस्तु धुट्स्वरेण लिङ्गं विशेषयति । विशेषणेन च तदन्तविधिः । धुडन्तात् स्वरान्ताच्च विहिते धुट्यर्थाद् धुट्स्वरान्तस्य नुर्भवति । तन्मतेनाधुट्पूर्वादपि धुटः प्राङ् नुरिति परिभाषासामर्थ्यात् परत्वे लब्धे यत्परग्रहणं तद्बलादिह मन्यते-सुक्रुञ्चि, सुवल्गीत्यादि । 'बहूर्जि, बहूर्जि' इति वा वक्तव्यम् इति मतान्तरमपेक्ष्य ‘वात्र समुच्चये' वक्तव्यमिति ।