________________
नामचतुष्टयाप्याये बितीयः सखिपादः
२०७ (२।१।१४) इति दीर्घमापद्यते । द्वितीयैकवचनस्य वचनबलादेवादेशे संयोगान्तलोपो न स्यात् । अथ अमादेश एव कथन्न विदध्यात्, असंबुद्धावितिवचनं न विधेयं स्यात् स्थानिवद्भावाद् ह्रस्वलक्षणः सिलोपो भविष्यति । नैवम् ‘अतिजरसं कुलं तिष्ठति, अतिजरसं कुलं पश्य' इति अपप्रयोगः स्यात् । ____ नवकारान्तं नपुंसकलिङ्गमाश्रित्य प्रवृत्तोऽयं न जरसादेशस्य निमित्तम्, यस्मात् 'सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य' इति । न त्विह वर्णग्रहणे निमित्तत्वाभावात् स्वरे हि वर्णे जरसादेशो विधीयते, जरसादेशे कृते तु नपुंसकात् स्यमोर्लोपो न भवति, सन्निपातलक्षणत्वात् । अथानित्यामिमामभ्युपगम्य केनचिद् इष्यते'अतिजरसम्, अतिजरं कुलम्' तिष्ठति । अतिजरसम्, अतिजरं कुलं पश्येति । तदेतदुभयमतमेव प्रमाणं मन्यमानोऽसन्देहायागममेव कृतवान् । प्रमाणं तु उदाहृतम् अतिजरमिति | कारग्रहणमिह सुखप्रतिपत्त्यर्थम् । आदिति वर्णमात्रात् पञ्चमीनिर्देशे दुःखबोधः स्यात् । अत इत्युच्यमानेऽपि किमयं तकार उच्चारणार्थः कार्यार्थो वेति सन्देहः स्यात् । ततश्च 'दधत् कुलम्' इत्यत्रादन्तत्वान्मुः प्रसज्येत ।। १६३ ।
[वि० प०]
अकारात् । मुरित्युदनुबन्धः आगमार्थः, अन्यथा उकारमन्तरेण स्यमोरादेशोऽयं स्यात्, ततश्च “अकारो दीर्घ घोषवति" (२।१।१४) इति दीर्घत्वं प्रसज्येत । न च 'सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य' (कात० प० ३१) इति वक्तुं युज्यते, वर्णग्रहणे निमित्तत्वात् । आगमे तु नायं दोषस्तस्य प्रकृतिग्रहणेन ग्रहणादिति । अतिजरम् । जरामतिक्रान्तं कुलमिति विग्रहे "स्वरो हस्वो नपुंसके" (२।४।५२) इति ह्रस्वः ।।१६३।
[क० च०]
अकारात्। अन्यथोकारमन्तरेणेति । ननु अन्यथाशब्देनैवोकारमन्तरेणेत्यर्थो लभ्यते, किं पुनरुकारमन्तरेणेत्यनेन ? सत्यम् । एवं पत्री व्याख्येया अन्यथा यद्यागमो न स्यादित्यर्थः। आगम एव कथं न स्यादित्याह - उकारमन्तरेणेति ।। १६३ ।
[समीक्षा]
'कुण्ड + सि, अम् । अतिजर + सि, अम्' इस अवस्था में कातन्त्रकार 'सिअम्' प्रत्ययों का लोप करके अन्त्य स्वर के बाद 'मु' आगम करते हैं और इस