________________
२०४
कातन्त्रव्याकरणम्
"अन्त्वसन्तस्य चाधातोः सौ" (२।२।२०) इति सौ दीर्घं प्राप्नोति, अमि तु न किञ्चिदपीति । अत्र विसर्जनीयो भवत्येव, तस्य विरामविषयत्वात् । तदित्यत्र त्यदाद्यत्वप्रतिषेधे प्रथमो भवत्येव "विरामव्यजनादावुक्तम्" (२।३।६४) इत्यतिदेशबलात्।
शोभनः सखा यस्य कुलस्य तत् ‘सुसखि' इति । “सख्युश्च" (२।२।२३) इति सावन् न भवति । अमि तु नपुंसके घुट्वाभावान्न किञ्चिदपि प्राप्नोति, तदुक्तप्रतिषेधाभावेऽपि लोप एव भवतीति । एतेषु नित्यत्वात् स्यमो.पे सति तदुक्तप्रतिषेधः । अथ न च तदुक्तग्रहणं किमर्थं लुगित्युच्यताम् 'लुग्लोपे न प्रत्ययकृतम्' इति प्रतिषेधो भविष्यति ? सत्यम् । न च तदुक्तग्रहणं नाम्यन्तानां चतुरश्च पक्षे तदुक्तमपि कार्यं भवतीति ज्ञापयति । तेन ‘हे वारि ! हे वारे! हे त्रपु! हे त्रपो ! हे प्रियचत्वः! हे प्रियचतुः! इत्यादिषु "संबुद्धी च" (२।१।३९, ५६) इत्येदोतौ पक्षे सिद्धौ चतुरश्च पक्षे ह्रस्व इति । नपुंसकादित्यादि । शोभनं पयो यस्या गोरित्यन्यपदार्थे बहुव्रीहौ स्त्रीलिङ्गता | ननु 'येन विधिस्तदन्तस्य' (कात० प० ३) इति नपुंसकान्तस्य स्त्रीलिङ्गान्तस्यापि प्राप्नोति । नैवम्, नपुंसकादिति पञ्चम्या विहितविशेषणमाख्यायते नपुंसका विहितयोःस्यमोरित्यर्थः । इह तु स्त्रीलिङ्गाद् विधानम् । एवमुत्तरत्रापि ।। १६२ ।
[क० च०]
नपुं०। ननु ह्रस्वादित्यनन्तरत्वात् कथं नानुवर्तते । नैवम् । नपुंसकादिति धर्मनिर्देशः । पर्मश्च धर्मिणमपेक्षते। न च ह्रस्वो धर्मीति वाच्यम्, धर्मावयवत्वाभावात् । अतः प्रकृतेन नाम्नाऽस्य नपुंसकस्य संबन्ध इति, न तु ह्रस्वेनेति कुलचन्द्रः। तन्न, तदन्तविधिना नाम्ना ह्रस्वान्वयसम्भवात् । तस्माद् विशेषणविशेष्यभावस्य इष्टत्वान्न ह्रस्वानुवृत्तिः। विभक्तिविपरिणामोऽपि गरीयानिति । इयुवोस्तु स्त्र्याख्यनिवृत्तौ निवृत्तिस्तत्संबन्धत्वात् । वाग्रहणस्य उत्तरत्र वाग्रहणादेव निवृत्तिः । अमि त्विति । ननु कथमिदमुच्यते यावता सुसखिशब्दस्यामि परे "नामिनः स्वरे" (२।२।१२) इति न्वागमोऽस्ति प्रत्ययलोपलक्षणेन ? सत्यम् । 'न वर्णाश्रये प्रत्ययलोपलक्षणम्' (व्या०प० पा० ९६) इति न्यायान्नुर्न स्यादिति भावः । ननु पयः प्रभृतिषु परत्वाद् दीर्घादिकार्यस्य प्रथम एव प्रवृत्तत्वात् कथं तदुक्तप्रतिषेध उपपद्यते इत्याशङ्कां परिहरति- एतेष्वित्यादि । परान्नित्यमिति न्यायादित्यर्थः। ननु तथापि 'नित्यादन्तरङ्ग बलीयः' (कात० प० पा० ९३) इति न्यायाल्लोपात् पूर्वमेव दीर्घादिकार्यं भविष्यति, नैवम् । 'सर्वविधिभ्यो