SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २०३ नामवतुष्टयाध्याये द्वितीयः सखिपादः पुनर्लोपप्रवृत्तिहेतुतया उक्तिबाधानिरासार्थ एव सन् निमित्तमिति । अपर आह - पूर्वविप्रतिषेधेन त्यदाद्यत्वं लोपेन बाध्यते, लोपस्यावकाशो 'दधि, मधु' । त्यदाद्यत्वस्यावकाशः स पुमानिति । न च पूर्वविधेः प्रतिषेधो वक्तव्यः 'पूर्वपरयोः परविधिबलवान्' (पुरु० प० पा० ३९) इति परशब्दस्येष्टवाचित्वात् । ननु लुगेव कथन्न विदध्यात् ‘लुग्लोपे न प्रत्ययकृतम्' इति भविष्यति ? सत्यम् । न च तदुक्तग्रहणं नाम्यन्तानां चतुरश्च वा तदुक्तमपि भवतीति प्रतिपत्त्यर्थम् । व्यवस्थित - वानुवर्तनाद् ‘हे वारे !' इत्यादि सिद्धम् । नपुंसकादित्यादि - 'शोभनं त्रयो यस्या गोः' इत्यन्यपदार्थे स्त्रीलिङ्गता। तदन्तविधिरपि नैव, विहितविशेषणान्नपुंसकाद् विहितयोः स्यमोरिति । एवमुत्तरत्रापि विहितविशेषणमेव ।। १६२ । [वि० प०] नपुं० । अथ कथमत्र समासः, किन्तस्य नपुंसकस्योक्तं तदुक्तम् । आहोस्वित् तयोः स्यमोरुक्तं तदुक्तम् । उतस्वित् तस्मिन् लोपे प्रत्ययलोपलक्षणेनोक्तं तदुक्तम् इति ? तत्र यदि षष्ठीलक्षणस्तत्पुरुषः स्यात्, तदा नपुंसकस्योक्तत्वात् 'दधीदम्, मध्वत्र' इत्यादौ लक्षणस्यापि कार्यस्य प्रतिषेधः स्यात् । द्वितीयेऽपि पक्षे साक्षात् स्यम्शब्दोच्चारितस्यैव कार्यस्य प्रतिषेधो भवेत् । यथा ‘अत्युशनः कुलम्' इति "उशन:पुरुदंश०" (२।२।२२) इत्यादिना अन् न भवति । 'सुधु कुलम्' इति “वाम्या" (२।२।२७) इत्याकारो न भवति । अतो नानयोः पक्षयोर्ग्रहणमिति । तदयुक्तमिह प्रकरणे लोपलक्षणस्य श्रुतत्वाद् एतत्प्रकरणप्रणीतस्यैव कार्यस्य प्रतिषेध इष्यते, न सन्धिलक्षणविहितस्य प्रकरणान्तरत्वात् । तथा द्वितीयेऽपि पक्षे न दोषः "विरामव्यजनादावुक्तं नपुंसकात् स्यमोलपिऽपि" (२।३।६४) इत्यतिदेशबलाद् व्यञ्जनोक्त उकार एवास्ति बाधक इति कुतो "बाम्या" (२।२।२७) इत्यस्य प्राप्तिः, येन प्रतिषेध उपपद्यते । तेनामि सामान्यमेव कार्यमवगम्यते, न पुनः अम्-शब्दोच्चारितमिति । तत्साहचर्यात् सावपि सामान्यमेव कार्यमवगम्यते । कथम् "उशनःपुरुदंशोऽनेहसाम्" (२।२।२२) इत्यादिनैव प्राप्तस्य प्रतिषेध इति ? सत्यम् । एवं सति प्रतिपत्तिगौरवमेवानयोः पक्षयोरिति, अतस्तृतीय एव पक्षो युक्तः । चकारोऽयमन्वाचयशिष्टः, तेन तदुक्तकार्यप्रतिषेधाभावेऽपि प्रधानवाक्यनिर्दिष्टो लोप एवेति । एतदेव ‘पयः, पयः' इत्युदाहरणद्वयेन सूचितम् । इह हि प्रत्ययलोपलक्षणेन
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy