SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २०२ कातन्त्रप्याकरणम् स्यमौ । इकारोऽत्र न सुपः सकारनिवृत्त्यर्थो यस्मादमैकवचनेन साहचयदिकवचनमेव गम्यते क्रियते च सुखप्रतिपत्त्यर्थ एव । ननु तदुक्तमिति कथं समासः, किन्तस्य नपुंसकस्योक्तं तदुक्तम् । तयोः स्यमोरुक्तं तदुक्तम् । तस्मिन् प्रत्ययलोपलक्षणेनोक्तं तदुक्तं वा? तत्राद्ये पक्षे 'दधीदम्, मध्वत्र' इति सन्धिलक्षणस्यापि प्रतिषेधः स्यात् । द्वितीयेऽपि सिशब्दोच्चारिताम्शब्दोच्चारितविधिरेव । यथा अत्युशनः कुलम् "उशनःपुरुदंश०" (२।२।२२) इत्यादिना 'अन्' न भवति । 'सुधु कुलम्' इति “वाम्या" (२।२।२७) इत्याकारो न भवति । तदयुक्तम् । श्रुतलोपलक्षणे संबन्धे सत्यश्रुतसंबन्धिलक्षणं भवत्येव । “वाम्या" (२।२।२७) इत्यस्यापि कुतः प्राप्तिः "विरामव्यजनादावुक्तम्" (२।३।६४) इत्यस्य बाधकत्वादम्सहचरिते सावपि सामान्यकार्यमेव गम्यते, स्यमोनिमित्तमात्रयोरित्यर्थः । तृतीयस्त्वनन्तरतच्छब्दपरामर्शयोग्यःसुखप्रतिपत्तिकरश्चेति । अथाद्यपक्षेऽङ्गीक्रियमाणे कथम् ‘अदः कुलम्' इति “अदसः पदे मः" (२।२।४५) इति भवति ? नैवम् । तत्र विभक्त्यनुवर्तनात् साक्षाद् विभक्तावेवावसीयते । ‘पयः, पयः' इत्युदाहरणद्वयेन प्रतिषेधस्यान्वाचयशिष्टतां दर्शयति - यस्मादन्तस्य सौ दीर्घ उक्तः, अमि तु न किञ्चिदपि । ननु तत्कुलमिति परत्वात् त्यदाद्यत्वे कृतेऽकारान्तत्वात् मुः प्रसज्यते ? नैवम् । यथा 'सुसखि' शब्दस्य परत्वादनं कृताकृतप्रसङ्गितया नित्यो लोपो बाधते, तथात्रापीति । सिलोपे तु कृते त्यदायत्वं नास्ति तदुक्तप्रतिषेधात्, नैवम् । "अकारादसंबुद्धौ मुश्च" (२।२।७) इत्यनेन लक्षणान्तरेण स्यमोर्लोपो विधीयमानो न नित्यो भवितुमर्हतीति । तस्मात् “त्यदादिभ्यश्च" इति वक्तव्यम् । न च वक्तव्यम्, लक्षणान्तरेणाप्यकारान्तमेव नपुंसकं निमित्तीकृतं पञ्चमीनिर्देशादिति । अन्यथा अकारस्येति विदध्यात् । अकारान्तस्य मुर्भवन् ‘आगमा यद्गुणीभूतास्ते तद्ग्रहणेन गृह्यन्ते' इत्यागमेऽपि कृते "नपुंसकात् स्यमोर्लोपो०" (२।२।६) भविष्यति, तस्मान्नित्य एव लोप इति । कश्चिदाह - पञ्चमीनिर्देश उक्तिबाधानिरासार्थः । यथा 'ब्राह्मणेभ्यो दधि दीयताम्, तक्रं कौण्डिन्याय' इति तक्रदानेन दधिदानं बाध्यते, तथा आगमेन स्यमोर्लोपः । अथागमे कृते चकारेण स्यमोर्लोप उच्यते, तर्हि आगम एव निमित्तम्, शब्दान्तरत्वाल्लोपः पुनरनित्य एव, नैवम् । उक्तितो लोपस्य बाधा गम्यते । अकारान्तत्वं तु निमित्तमेव यद्यक्तितो बाधा न स्यात्, अकारान्तत्वाल्लुक् स्यादेवेति युक्तमुक्तम्, पञ्चमीनिर्देशः
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy