SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाप्याये द्वितीयः सखिपादः च प्रवृत्तानां स्त्रीशब्देन समानाधिकरणेन पुनपुंसकयोवृत्तिर्व्यवच्छिद्यते, न पुनः स्त्रियां वृत्तिः क्रियते इति विभाषया नदीवद्भावः स्यादिति केचिदाचक्षते। तदा तु आख्याग्रहणमनुपकारकमेव स्यात् । ग्रामण्यादयो हि पुंलिङ्गा एव निश्चिताः । ___ङवतीत्यादि । ङवतीति व्यावृत्तिबलाद् ‘हे श्रीः, हे भ्रूः' तथा 'हे चारुश्रीः, हे नम्रभूः' स्त्री पुरुषो वा पूर्वेण प्राप्तावपीकारोकारलक्षणा नदीसंज्ञा न भवति, अत एवातिदेशबलाद् यतः प्रसिद्धस्य साधादप्रसिद्धस्य साधनमुपमानं तत् पुनरेकदेशस्यैव वस्तुनः समानाधिकरणत्वाद् भवति । यथा 'मेरुसर्षपयोः' इति सर्वथा अर्थस्य समानधर्मत्वे पृथगध्यवसायानुपपत्तेः । तस्मादप्रसिद्धमुपमेयमिति नदीसंज्ञायामियुवाश्रयावीकारोकारावप्रसिद्धाविति नदीलक्षणः सिलोपः संबुद्धौ ह्रस्वो न स्यात् । यवस्थानयोस्तु नदीसंज्ञा स्यात्- 'हे आधि ! हे प्रधि ! हे वर्षाभु ! हे पुनर्भु ! संबुद्धिसिलोपो ह्रस्वश्च भवति । यथा 'आधीः, प्रधीः, वर्षाभूः, पुनर्भूः' पश्येति शसोऽकारलोपः। कथं 'विमानना सुच कुतः पितुह' (कु० सं० ५।४४) इति मतान्तरेणास्त्रीवचन इत्यस्य व्यावर्तनाद् अस्त्रीवचने ङवति नदीवद्भावः स्यात् । अङवति न भवति । स्त्रीवचने तु सर्वत्र नदीसंज्ञाऽस्त्येवेति न विरुध्यते ।।१६१। [वि० प०] हस्वश्व । ननु ह्रस्व इत्युक्ते कथमिकारोकारावेवावसीयेते यावता सामान्यनिर्देशात् ‘मात्रे, दुहित्रे' इत्यत्रापि स्याद् इति चेत्, नैवम् । इयुवस्थानौ हि दीर्घावीकारोकारावेव प्रवर्तेते, तत्सान्निध्यात् तयोरेव सवर्णो ह्रस्वःप्रतिपत्तव्यः । अथवा वत्करणं हि सादृश्यार्थमवगमयति । तच्च ह्रस्वयोरिकारोकारयोरेव किञ्चित् संभवति एकस्थानित्वात्, न पुनर्ऋकारस्याभिन्नस्थानित्वाद् वा । अथवा मण्डूकप्लुत्या अग्निरेवानुवर्तते इत्यालोच्याह-ह्रस्व इदुदेव | पटवा इत्यादि । पटुशब्दः पाटवगुणयोगात् स्त्रियां पुंसि नपुंसके च सामान्येन वर्तते, ततः स्त्रीशब्देन समानाधिकरणेन पुनपुंसकयोवृत्तिर्व्यवच्छिद्यते, न पुनः स्त्रियां वृत्तिः क्रियते, तत्र स्वत एव प्रवृत्तत्वादित्याहस्त्रियै वेति केचित्। अतः स्त्र्याख्यत्वेन विभाषया नदीवद्भावः स्यादित्यर्थः । केचिदित्यन्ये, न वयम् इत्यर्थः । आख्याग्रहणस्य नित्यस्त्रीविषयत्वात् पटुशब्दस्य ‘पटुः पुमान्' इत्यादिषु शब्दान्तरेण स्त्रीविषयस्य व्यवच्छिन्नत्वात् कुतो नित्यस्त्रीविषयतेति भाव्यम्।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy