SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २०० कातन्त्रयकरणम बतीत्यादि । अथात्र कथम् ईदूत्स्त्र्याख्यौ नदीति नदीसंज्ञा न भवति, समुदायस्य स्त्र्याख्यत्वेऽवयवस्यापि स्त्र्याख्यत्वमुपचारात् प्राप्नोति, यथा लक्ष्मीशब्दस्य । कथमन्यथा 'हे लक्ष्मि' इति संबुद्धौ ह्रस्वः स्यात् । अथ ङवतीति व्यावृत्तिबलात् प्राप्तापि नदीसंज्ञा न भवतीति चेद् अयुक्तम्, इह नित्यनदीत्वेन नदीसंज्ञाया व्यावृत्तिरस्त्येव ? सत्यम् । अत एवातिदेशविधानादियुत्स्थानयोरीकारोकारयोः स्त्र्याख्यत्वेऽपि नदीत्वस्याप्रसिद्धिराख्यायते, यस्माद् अप्रसिद्धस्येवोपमेयत्वमिति । अत एवाह - अप्रसिद्धमुपमेयमिति । प्रसिद्धमुपमानम्, तस्य ज्ञापकत्वात् । तथा चोक्तम् – 'प्रसिद्धस्य सापादप्रसिद्धस्य साधनमुपमानम्' इति । यदि पुनरिह नदीसंज्ञा स्यात् तदा सर्वथा समानधर्मत्वाद् उपमानोपमेययोरविषयत्वेन वत्करणम् अनर्थकं स्यादित्यर्थः ।।१६१। [क० च०] हस्वः। ननु यथा दीर्घकारसन्निहितो ह्रस्व इकारस्तथा ऋकारोऽपि सन्निहितः संभक्तीत्याह – अथवेति । एकस्थानत्वादिति एकस्थानोच्चार्यत्वादित्यर्थः । ननु यथा स्थानकृतसादृश्यं गृह्यते तथा वर्णगतसादृश्यमादाय ऋकारस्यापि प्रसङ्गः कथन्न स्यादित्याह- अथवेति । पक्षान्तरमिति साम्प्रदायिकाः। मतान्तरमिति महान्तः। नदीसंज्ञा कथं न भवतीति । ननु कथमिदमुच्यते ईदूतोः स्त्र्याख्यत्वाभावादित्याहसमुदायस्येति । केचित्तु आख्याग्रहणं स्वभावतः स्त्रीपरिग्रहार्थम् । तन्मते 'पट्दै स्त्रियै' इति कैश्चिदुक्तमिति भावः ।।१६१। [समीक्षा] 'बुद्धि + डे, धेनु +3, श्री + , + डे' इस स्थिति में कातन्त्रकार ह्रस्व तथा दीर्घ ई-ऊ का वैकल्पिक नदीवद्भाव करके 'बुद्ध्यै, बुद्धये । धेन्वै, धेनवे । श्रियै, श्रिये । ध्रुवै, ध्रुवे' शब्दरूप सिद्ध करते हैं | पाणिनि इन शब्दों के निष्पादनार्थ विकल्प से नदीसंज्ञा का विधान करते हैं - "डिति हस्वश्व" (अ० १।४।६)। [रूपसिद्धि] १. बुये, बुद्धये। बुद्धि +डे । प्रकृत सूत्र से नदीवद्भाव, "नया ऐ आसासाम्" (२।१।४५) से डे को 'ऐ' आदेश तथा "इवर्णो यमसवर्णेन च
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy