________________
१९८
कातन्त्रव्याकरणम्
१६१. हस्वश्च ङवति [ २।२।५ ]
[सूत्रार्थ]
ह्रस्व इकार- उकार का तथा स्त्रीत्व अर्थ के अभिधायक एवं इय्-उव् आदेश के स्थानी दीर्घ ईकार- ऊकार का भी नदीवद्भाव विकल्प से होता है - अनुबन्ध वाले ‘ङे- ङसि ङस् –ङि' प्रत्ययों के पर में रहने पर ।। १६१ |
[दु० वृ०]
ह्रस्वश्च इदुदेव स्त्र्याख्यावियुवस्थानौ च ङवति परे नदीवद् भवतो वा । बुद्ध्यै, बुद्धये । धेन्चै, धेनवे । श्रिये, श्रिये । ध्रुवै, ध्रुवे । पट्वै स्त्रियै वेति केचित् । ङवतीति किम् ? हे श्रीः, हे भ्रूः | अप्रसिद्धमुपमेयमिति || १६१।
[दु० टी०]
ह्रस्व ० । इदुदेवेति । ननु कथमिहेकार उकार एवेति लभ्यते, 'ह्रस्व' इति सामान्यनिर्देशात् ‘मात्रे, दुहित्रे' इत्यत्रापि स्यात्, नैवम् । इयुवाश्रयौ हि दीर्घावीकारोकारौ तदपेक्षया ह्रस्वौ इकारोकारावेवावसीयेते इति । किं च वत्करणं सादृश्यार्थम् । सादृश्यं पुनरिकारोकारयोरेव संभवति एकस्थानत्वान्न पुनः ऋकारस्येति । अग्निर्वा मण्डूकप्लुतिन्यायेन वर्तते । स्त्र्याख्येति उभयोर्विशेषणम् - ह्रस्वः स्त्र्याख्यः, इयुवस्थानी च स्त्र्याख्याविति । पट्वै इत्यादि । ननु पट्वादयोऽपि स्त्रीशब्दसान्निध्यादेव स्त्रीत्वमाचक्षते । अन्यथा 'पटुः, शुचिः' इत्युक्ते न ज्ञायते - किं स्त्री पुमानिति वा सामान्यशब्दत्वात् । गुणवचना हि गुणयोगाद् गुणवति वर्तन्ते, गुणेन च पाटवादिना न त्र्येव युज्यते, किन्तु पुमानपि । तस्माद् ग्रामण्यादिवत् पट्वादीनामपि नदीत्वं न प्राप्नोति । नैवम्, शब्दान्तरसन्निधानेन केषांचिदर्थान्तरेऽपि प्रवृत्तानां प्रवृत्तिरेव क्रियते, यथा गौरयं पामर इति ।
केषांचित् सामान्येन । तत्रान्यत्र च प्रवृत्तानामन्यत्र च प्रवृत्तिर्व्यवच्छ्रिद्यते । यथा 'नीलमुत्पलम्' इति उत्पलशब्दोऽयमुत्पलजात्यध्यासिकेषु द्रव्येषु नीलेषु रक्तादिषु च प्रवृत्तोऽस्य रक्तादिषु या प्रवृत्तिः सा नीलशब्देन समानाधिकरणेन व्यवच्छिद्यते न पुनर्नीले वृत्तिः क्रियते, तत्र स्वयं प्रवृत्तत्वात् । स्वयं प्रवृत्तिस्तु तत्रापि प्रवृत्तिनिमित्तस्योत्पलजातेः संभवात्, तद्वदिहापि पट्वादीनां पाटवादिगुणयोगात् स्त्रियां पुंसि नपुंसके